१२. शान्तिपर्व
१२.३४९.१भीष्म उवाच

१२.३४९.२स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति
तमेव मनसा ध्यायन्कार्यवत्तां विचारयन्

१२.३४९.३तमभिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः

१२.३४९.४भो भो क्षाम्याभिभाषे त्वां न रोषं कर्तुमर्हसि
इह त्वमभिसंप्राप्तः कस्यार्थे किं प्रयोजनम्

१२.३४९.५आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज
विविक्ते गोमतीतीरे किं वा त्वं पर्युपाससे

१२.३४९.६ब्राह्मण उवाच

१२.३४९.७धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम्
पद्मनाभं द्विजश्रेष्ठं तत्र मे कार्यमाहितम्

१२.३४९.८तस्य चाहमसांनिध्यं श्रुतवानस्मि तं गतम्
स्वजनं तं प्रतीक्षामि पर्जन्यमिव कर्षकः

१२.३४९.९तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम्
वर्तयाम्ययुतं ब्रह्म योगयुक्तो निरामयः

१२.३४९.१०नाग उवाच

१२.३४९.११अहो कल्याणवृत्तस्त्वं साधु सज्जनवत्सलः
श्रवाढ्यस्त्वं महाभाग परं स्नेहेन पश्यसि

१२.३४९.१२अहं स नागो विप्रर्षे यथा मां विन्दते भवान्
आज्ञापय यथा स्वैरं किं करोमि प्रियं तव

१२.३४९.१३भवन्तं स्वजनादस्मि संप्राप्तं श्रुतवानिह
अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज

१२.३४९.१४संप्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति
विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तुमर्हसि

१२.३४९.१५वयं हि भवता सर्वे गुणक्रीता विशेषतः
यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे

१२.३४९.१६ब्राह्मण उवाच

१२.३४९.१७आगतोऽहं महाभाग तव दर्शनलालसः
कंचिदर्थमनर्थज्ञः प्रष्टुकामो भुजंगम

१२.३४९.१८अहमात्मानमात्मस्थो मार्गमाणोऽऽत्मनो हितम्
वासार्थिनं महाप्राज्ञ बलवन्तमुपास्मि ह

१२.३४९.१९प्रकाशितस्त्वं स्वगुणैर्यशोगर्भगभस्तिभिः
शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः

१२.३४९.२०तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन
पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति मे भवान्