१२.३५०.१ब्राह्मण उवाच
१२.३५०.२विवस्वतो गच्छति पर्ययेण; वोढुं भवांस्तं रथमेकचक्रम्
आश्चर्यभूतं यदि तत्र किंचि;द्दृष्टं त्वया शंसितुमर्हसि त्वम्
१२.३५०.३नाग उवाच
१२.३५०.४यस्य रश्मिसहस्रेषु शाखास्विव विहंगमाः
वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह
१२.३५०.५यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान्
विजृम्भत्यम्बरे विप्र किमाश्चर्यतरं ततः
१२.३५०.६शुक्रो नामासितः पादो यस्य वारिधरोऽम्बरे
तोयं सृजति वर्षासु किमाश्चर्यमतः परम्
१२.३५०.७योऽष्टमासांस्तु शुचिना किरणेनोज्झितं पयः
पर्यादत्ते पुनः काले किमाश्चर्यमतः परम्
१२.३५०.८यस्य तेजोविशेषेषु नित्यमात्मा प्रतिष्ठितः
यतो बीजं मही चेयं धार्यते सचराचरम्
१२.३५०.९यत्र देवो महाबाहुः शाश्वतः परमोऽक्षरः
अनादिनिधनो विप्र किमाश्चर्यमतः परम्
१२.३५०.१०आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु
विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात्
१२.३५०.११पुरा मध्याह्नसमये लोकांस्तपति भास्करे
प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत
१२.३५०.१२स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन्
आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव
१२.३५०.१३हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः
अनिर्देश्येन रूपेण द्वितीय इव भास्करः
१२.३५०.१४तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता
तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना
१२.३५०.१५ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम्
एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम्
१२.३५०.१६तत्र नः संशयो जातस्तयोस्तेजःसमागमे
अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः
१२.३५०.१७ते वयं जातसंदेहाः पर्यपृच्छामहे रविम्
क एष दिवमाक्रम्य गतः सूर्य इवापरः