१२.३५१.१सूर्य उवाच
१२.३५१.२नैष देवोऽनिलसखो नासुरो न च पन्नगः
उञ्छवृत्तिव्रते सिद्धो मुनिरेष दिवं गतः
१२.३५१.३एष मूलफलाहारः शीर्णपर्णाशनस्तथा
अब्भक्षो वायुभक्षश्च आसीद्विप्रः समाहितः
१२.३५१.४ऋचश्चानेन विप्रेण संहितान्तरभिष्टुताः
स्वर्गद्वारकृतोद्योगो येनासौ त्रिदिवं गतः
१२.३५१.५असन्नधीरनाकाङ्क्षी नित्यमुञ्छशिलाशनः
सर्वभूतहिते युक्त एष विप्रो भुजंगम
१२.३५१.६न हि देवा न गन्धर्वा नासुरा न च पन्नगाः
प्रभवन्तीह भूतानां प्राप्तानां परमां गतिम्
१२.३५१.७नाग उवाच
१२.३५१.८एतदेवंविधं दृष्टमाश्चर्यं तत्र मे द्विज
संसिद्धो मानुषः कायो योऽसौ सिद्धगतिं गतः
सूर्येण सहितो ब्रह्मन्पृथिवीं परिवर्तते