१२.३५२.१ब्राह्मण उवाच
१२.३५२.२आश्चर्यं नात्र संदेहः सुप्रीतोऽस्मि भुजंगम
अन्वर्थोपगतैर्वाक्यैः पन्थानं चास्मि दर्शितः
१२.३५२.३स्वस्ति तेऽस्तु गमिष्यामि साधो भुजगसत्तम
स्मरणीयोऽस्मि भवता संप्रेषणनियोजनैः
१२.३५२.४नाग उवाच
१२.३५२.५अनुक्त्वा मद्गतं कार्यं क्वेदानीं प्रस्थितो भवान्
उच्यतां द्विज यत्कार्यं यदर्थं त्वमिहागतः
१२.३५२.६उक्तानुक्ते कृते कार्ये मामामन्त्र्य द्विजर्षभ
मया प्रत्यभ्यनुज्ञातस्ततो यास्यसि ब्राह्मण
१२.३५२.७न हि मां केवलं दृष्ट्वा त्यक्त्वा प्रणयवानिह
गन्तुमर्हसि विप्रर्षे वृक्षमूलगतो यथा
१२.३५२.८त्वयि चाहं द्विजश्रेष्ठ भवान्मयि न संशयः
लोकोऽयं भवतः सर्वः का चिन्ता मयि तेऽनघ
१२.३५२.९ब्राह्मण उवाच
१२.३५२.१०एवमेतन्महाप्राज्ञ विज्ञातार्थ भुजंगम
नातिरिक्तास्त्वया देवाः सर्वथैव यथातथम्
१२.३५२.११य एवाहं स एव त्वमेवमेतद्भुजंगम
अहं भवांश्च भूतानि सर्वे सर्वत्रगाः सदा
१२.३५२.१२आसीत्तु मे भोगपते संशयः पुण्यसंचये
सोऽहमुञ्छव्रतं साधो चरिष्याम्यर्थदर्शनम्
१२.३५२.१३एष मे निश्चयः साधो कृतः कारणवत्तरः
आमन्त्रयामि भद्रं ते कृतार्थोऽस्मि भुजंगम