१२.३७.१वैशंपायन उवाच
१२.३७.२एवमुक्तो भगवता धर्मराजो युधिष्ठिरः
चिन्तयित्वा मुहूर्तं तु प्रत्युवाच तपोधनम्
१२.३७.३किं भक्ष्यं किमभक्ष्यं च किं च देयं प्रशस्यते
किं च पात्रमपात्रं वा तन्मे ब्रूहि पितामह
१२.३७.४व्यास उवाच
१२.३७.५अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः
१२.३७.६सिद्धास्तपोव्रतपराः समागम्य पुरा विभुम्
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम्
१२.३७.७कथमन्नं कथं दानं कथमध्ययनं तपः
कार्याकार्यं च नः सर्वं शंस वै त्वं प्रजापते
१२.३७.८तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत्
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः
१२.३७.९अदत्तस्यानुपादानं दानमध्ययनं तपः
अहिंसा सत्यमक्रोधः क्षमेज्या धर्मलक्षणम्
१२.३७.१०य एव धर्मः सोऽधर्मोऽदेशेऽकाले प्रतिष्ठितः
आदानमनृतं हिंसा धर्मो व्यावस्थिकः स्मृतः
१२.३७.११द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम्
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः
१२.३७.१२अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम्
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च
१२.३७.१३एतयोश्चोभयोः स्यातां शुभाशुभतया तथा
दैवं च दैवयुक्तं च प्राणश्च प्रलयश्च ह
१२.३७.१४अप्रेक्षापूर्वकरणादशुभानां शुभं फलम्
ऊर्ध्वं भवति संदेहादिह दृष्टार्थमेव वा
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते
१२.३७.१५क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति
१२.३७.१६जातिश्रेण्यधिवासानां कुलधर्मांश्च सर्वतः
वर्जयेन्न हि तं धर्मं येषां धर्मो न विद्यते
१२.३७.१७दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये
१२.३७.१८अरुणा मृत्तिका चैव तथा चैव पिपीलकाः
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च
१२.३७.१९अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये
१२.३७.२०भासा हंसाः सुपर्णाश्च चक्रवाका बकाः प्लवाः
कङ्को मद्गुश्च गृध्राश्च काकोलूकं तथैव च
१२.३७.२१क्रव्यादाः पक्षिणः सर्वे चतुष्पादाश्च दंष्ट्रिणः
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः
१२.३७.२२एडकाश्वखरोष्ट्रीणां सूतिकानां गवामपि
मानुषीणां मृगीणां च न पिबेद्ब्राह्मणः पयः
१२.३७.२३प्रेतान्नं सूतिकान्नं च यच्च किंचिदनिर्दशम्
अभोज्यं चाप्यपेयं च धेन्वा दुग्धमनिर्दशम्
१२.३७.२४तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च
चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा
१२.३७.२५गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनश्च ये
परिवित्तिनपुंषां च बन्दिद्यूतविदां तथा
१२.३७.२६वार्यमाणाहृतं चान्नं शुक्तं पर्युषितं च यत्
सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत्
१२.३७.२७पिष्टमांसेक्षुशाकानां विकाराः पयसस्तथा
सक्तुधानाकरम्भाश्च नोपभोज्याश्चिरस्थिताः
१२.३७.२८पायसं कृसरं मांसमपूपाश्च वृथा कृताः
अभोज्याश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः
१२.३७.२९देवान्पितॄन्मनुष्यांश्च मुनीन्गृह्याश्च देवताः
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति
१२.३७.३०यथा प्रव्रजितो भिक्षुर्गृहस्थः स्वगृहे वसेत्
एवंवृत्तः प्रियैर्दारैः संवसन्धर्ममाप्नुयात्
१२.३७.३१न दद्याद्यशसे दानं न भयान्नोपकारिणे
न नृत्तगीतशीलेषु हासकेषु च धार्मिकः
१२.३७.३२न मत्ते नैव चोन्मत्ते न स्तेने न चिकित्सके
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने
१२.३७.३३न दुर्जने दौष्कुले वा व्रतैर्वा यो न संस्कृतः
अश्रोत्रिये मृतं दानं ब्राह्मणेऽब्रह्मवादिनि
१२.३७.३४असम्यक्चैव यद्दत्तमसम्यक्च प्रतिग्रहः
उभयोः स्यादनर्थाय दातुरादातुरेव च
१२.३७.३५यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन्
मज्जते मज्जते तद्वद्दाता यश्च प्रतीच्छकः
१२.३७.३६काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही
१२.३७.३७कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम्
१२.३७.३८निर्मन्त्रो निर्व्रतो यः स्यादशास्त्रज्ञोऽनसूयकः
अनुक्रोशात्प्रदातव्यं दीनेष्वेवं नरेष्वपि
१२.३७.३९न वै देयमनुक्रोशाद्दीनायाप्यपकारिणे
आप्ताचरितमित्येव धर्म इत्येव वा पुनः
१२.३७.४०निष्कारणं स्म तद्दत्तं ब्राह्मणे धर्मवर्जिते
भवेदपात्रदोषेण न मेऽत्रास्ति विचारणा
१२.३७.४१यथा दारुमयो हस्ती यथा चर्ममयो मृगः
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः
१२.३७.४२यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा
१२.३७.४३ग्रामधान्यं यथा शून्यं यथा कूपश्च निर्जलः
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ
१२.३७.४४देवतानां पितॄणां च हव्यकव्यविनाशनः
शत्रुरर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति
१२.३७.४५एतत्ते कथितं सर्वं यथा वृत्तं युधिष्ठिर
समासेन महद्ध्येतच्छ्रोतव्यं भरतर्षभ