१२.३९.१वैशंपायन उवाच
१२.३९.२प्रवेशने तु पार्थानां जनस्य पुरवासिनः
दिदृक्षूणां सहस्राणि समाजग्मुर्बहून्यथ
१२.३९.३स राजमार्गः शुशुभे समलंकृतचत्वरः
यथा चन्द्रोदये राजन्वर्धमानो महोदधिः
१२.३९.४गृहाणि राजमार्गे तु रत्नवन्ति बृहन्ति च
प्राकम्पन्तेव भारेण स्त्रीणां पूर्णानि भारत
१२.३९.५ताः शनैरिव सव्रीडं प्रशशंसुर्युधिष्ठिरम्
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च पाण्डवौ
१२.३९.६धन्या त्वमसि पाञ्चालि या त्वं पुरुषसत्तमान्
उपतिष्ठसि कल्याणि महर्षीनिव गौतमी
१२.३९.७तव कर्माण्यमोघानि व्रतचर्या च भामिनि
इति कृष्णां महाराज प्रशशंसुस्तदा स्त्रियः
१२.३९.८प्रशंसावचनैस्तासां मिथःशब्दैश्च भारत
प्रीतिजैश्च तदा शब्दैः पुरमासीत्समाकुलम्
१२.३९.९तमतीत्य यथायुक्तं राजमार्गं युधिष्ठिरः
अलंकृतं शोभमानमुपायाद्राजवेश्म ह
१२.३९.१०ततः प्रकृतयः सर्वाः पौरजानपदास्तथा
ऊचुः कथाः कर्णसुखाः समुपेत्य ततस्ततः
१२.३९.११दिष्ट्या जयसि राजेन्द्र शत्रूञ्शत्रुनिसूदन
दिष्ट्या राज्यं पुनः प्राप्तं धर्मेण च बलेन च
१२.३९.१२भव नस्त्वं महाराज राजेह शरदां शतम्
प्रजाः पालय धर्मेण यथेन्द्रस्त्रिदिवं नृप
१२.३९.१३एवं राजकुलद्वारि मङ्गलैरभिपूजितः
आशीर्वादान्द्विजैरुक्तान्प्रतिगृह्य समन्ततः
१२.३९.१४प्रविश्य भवनं राजा देवराजगृहोपमम्
श्रुत्वा विजयसंयुक्तं रथात्पश्चादवातरत्
१२.३९.१५प्रविश्याभ्यन्तरं श्रीमान्दैवतान्यभिगम्य च
पूजयामास रत्नैश्च गन्धैर्माल्यैश्च सर्वशः
१२.३९.१६निश्चक्राम ततः श्रीमान्पुनरेव महायशाः
ददर्श ब्राह्मणांश्चैव सोऽभिरूपानुपस्थितान्
१२.३९.१७स संवृतस्तदा विप्रैराशीर्वादविवक्षुभिः
शुशुभे विमलश्चन्द्रस्तारागणवृतो यथा
१२.३९.१८तान्स संपूजयामास कौन्तेयो विधिवद्द्विजान्
धौम्यं गुरुं पुरस्कृत्य ज्येष्ठं पितरमेव च
१२.३९.१९सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा
गोभिर्वस्त्रैश्च राजेन्द्र विविधैश्च किमिच्छकैः
१२.३९.२०ततः पुण्याहघोषोऽभूद्दिवं स्तब्ध्वेव भारत
सुहृदां हर्षजननः पुण्यः श्रुतिसुखावहः
१२.३९.२१हंसवन्नेदुषां राजन्द्विजानां तत्र भारती
शुश्रुवे वेदविदुषां पुष्कलार्थपदाक्षरा
१२.३९.२२ततो दुन्दुभिनिर्घोषः शङ्खानां च मनोरमः
जयं प्रवदतां तत्र स्वनः प्रादुरभून्नृप
१२.३९.२३निःशब्दे च स्थिते तत्र ततो विप्रजने पुनः
राजानं ब्राह्मणच्छद्मा चार्वाको राक्षसोऽब्रवीत्
१२.३९.२४तत्र दुर्योधनसखा भिक्षुरूपेण संवृतः
सांख्यः शिखी त्रिदण्डी च धृष्टो विगतसाध्वसः
१२.३९.२५वृतः सर्वैस्तदा विप्रैराशीर्वादविवक्षुभिः
परंसहस्रै राजेन्द्र तपोनियमसंस्थितैः
१२.३९.२६स दुष्टः पापमाशंसन्पाण्डवानां महात्मनाम्
अनामन्त्र्यैव तान्विप्रांस्तमुवाच महीपतिम्
१२.३९.२७इमे प्राहुर्द्विजाः सर्वे समारोप्य वचो मयि
धिग्भवन्तं कुनृपतिं ज्ञातिघातिनमस्तु वै
१२.३९.२८किं ते राज्येन कौन्तेय कृत्वेमं ज्ञातिसंक्षयम्
घातयित्वा गुरूंश्चैव मृतं श्रेयो न जीवितम्
१२.३९.२९इति ते वै द्विजाः श्रुत्वा तस्य घोरस्य रक्षसः
विव्यथुश्चुक्रुशुश्चैव तस्य वाक्यप्रधर्षिताः
१२.३९.३०ततस्ते ब्राह्मणाः सर्वे स च राजा युधिष्ठिरः
व्रीडिताः परमोद्विग्नास्तूष्णीमासन्विशां पते
१२.३९.३१युधिष्ठिर उवाच
१२.३९.३२प्रसीदन्तु भवन्तो मे प्रणतस्याभियाचतः
प्रत्यापन्नं व्यसनिनं न मां धिक्कर्तुमर्हथ
१२.३९.३३वैशंपायन उवाच
१२.३९.३४ततो राजन्ब्राह्मणास्ते सर्व एव विशां पते
ऊचुर्नैतद्वचोऽस्माकं श्रीरस्तु तव पार्थिव
१२.३९.३५जज्ञुश्चैव महात्मानस्ततस्तं ज्ञानचक्षुषा
ब्राह्मणा वेदविद्वांसस्तपोभिर्विमलीकृताः
१२.३९.३६ब्राह्मणा ऊचुः
१२.३९.३७एष दुर्योधनसखा चार्वाको नाम राक्षसः
परिव्राजकरूपेण हितं तस्य चिकीर्षति
१२.३९.३८न वयं ब्रूम धर्मात्मन्व्येतु ते भयमीदृशम्
उपतिष्ठतु कल्याणं भवन्तं भ्रातृभिः सह
१२.३९.३९वैशंपायन उवाच
१२.३९.४०ततस्ते ब्राह्मणाः सर्वे हुंकारैः क्रोधमूर्छिताः
निर्भर्त्सयन्तः शुचयो निजघ्नुः पापराक्षसम्
१२.३९.४१स पपात विनिर्दग्धस्तेजसा ब्रह्मवादिनाम्
महेन्द्राशनिनिर्दग्धः पादपोऽङ्कुरवानिव
१२.३९.४२पूजिताश्च ययुर्विप्रा राजानमभिनन्द्य तम्
राजा च हर्षमापेदे पाण्डवः ससुहृज्जनः
१२.३९.४३वासुदेव उवाच
१२.३९.४४ब्राह्मणास्तात लोकेऽस्मिन्नर्चनीयाः सदा मम
एते भूमिचरा देवा वाग्विषाः सुप्रसादकाः
१२.३९.४५पुरा कृतयुगे तात चार्वाको नाम राक्षसः
तपस्तेपे महाबाहो बदर्यां बहुवत्सरम्
१२.३९.४६छन्द्यमानो वरेणाथ ब्रह्मणा स पुनः पुनः
अभयं सर्वभूतेभ्यो वरयामास भारत
१२.३९.४७द्विजावमानादन्यत्र प्रादाद्वरमनुत्तमम्
अभयं सर्वभूतेभ्यस्ततस्तस्मै जगत्प्रभुः
१२.३९.४८स तु लब्धवरः पापो देवानमितविक्रमः
राक्षसस्तापयामास तीव्रकर्मा महाबलः
१२.३९.४९ततो देवाः समेत्याथ ब्रह्माणमिदमब्रुवन्
वधाय रक्षसस्तस्य बलविप्रकृतास्तदा
१२.३९.५०तानुवाचाव्ययो देवो विहितं तत्र वै मया
यथास्य भविता मृत्युरचिरेणैव भारत
१२.३९.५१राजा दुर्योधनो नाम सखास्य भविता नृप
तस्य स्नेहावबद्धोऽसौ ब्राह्मणानवमंस्यते
१२.३९.५२तत्रैनं रुषिता विप्रा विप्रकारप्रधर्षिताः
धक्ष्यन्ति वाग्बलाः पापं ततो नाशं गमिष्यति
१२.३९.५३स एष निहतः शेते ब्रह्मदण्डेन राक्षसः
चार्वाको नृपतिश्रेष्ठ मा शुचो भरतर्षभ
१२.३९.५४हतास्ते क्षत्रधर्मेण ज्ञातयस्तव पार्थिव
स्वर्गताश्च महात्मानो वीराः क्षत्रियपुंगवाः
१२.३९.५५स त्वमातिष्ठ कल्याणं मा ते भूद्ग्लानिरच्युत
शत्रूञ्जहि प्रजा रक्ष द्विजांश्च प्रतिपालय