१२.४०.१वैशंपायन उवाच
१२.४०.२ततः कुन्तीसुतो राजा गतमन्युर्गतज्वरः
काञ्चने प्राङ्मुखो हृष्टो न्यषीदत्परमासने
१२.४०.३तमेवाभिमुखौ पीठे सेव्यास्तरणसंवृते
सात्यकिर्वासुदेवश्च निषीदतुररिंदमौ
१२.४०.४मध्ये कृत्वा तु राजानं भीमसेनार्जुनावुभौ
निषीदतुर्महात्मानौ श्लक्ष्णयोर्मणिपीठयोः
१२.४०.५दान्ते शय्यासने शुभ्रे जाम्बूनदविभूषिते
पृथापि सहदेवेन सहास्ते नकुलेन च
१२.४०.६सुधर्मा विदुरो धौम्यो धृतराष्ट्रश्च कौरवः
निषेदुर्ज्वलनाकारेष्वासनेषु पृथक्पृथक्
१२.४०.७युयुत्सुः संजयश्चैव गान्धारी च यशस्विनी
धृतराष्ट्रो यतो राजा ततः सर्व उपाविशन्
१२.४०.८तत्रोपविष्टो धर्मात्मा श्वेताः सुमनसोऽस्पृशत्
स्वस्तिकानक्षतान्भूमिं सुवर्णं रजतं मणीन्
१२.४०.९ततः प्रकृतयः सर्वाः पुरस्कृत्य पुरोहितम्
ददृशुर्धर्मराजानमादाय बहु मङ्गलम्
१२.४०.१०पृथिवीं च सुवर्णं च रत्नानि विविधानि च
आभिषेचनिकं भाण्डं सर्वसंभारसंभृतम्
१२.४०.११काञ्चनौदुम्बरास्तत्र राजताः पृथिवीमयाः
पूर्णकुम्भाः सुमनसो लाजा बर्हींषि गोरसाः
१२.४०.१२शमीपलाशपुंनागाः समिधो मधुसर्पिषी
स्रुव औदुम्बरः शङ्खास्तथा हेमविभूषिताः
१२.४०.१३दाशार्हेणाभ्यनुज्ञातस्तत्र धौम्यः पुरोहितः
प्रागुदक्प्रवणां वेदीं लक्षणेनोपलिप्य ह
१२.४०.१४व्याघ्रचर्मोत्तरे श्लक्ष्णे सर्वतोभद्र आसने
दृढपादप्रतिष्ठाने हुताशनसमत्विषि
१२.४०.१५उपवेश्य महात्मानं कृष्णां च द्रुपदात्मजाम्
जुहाव पावकं धीमान्विधिमन्त्रपुरस्कृतम्
१२.४०.१६अभ्यषिञ्चत्पतिं पृथ्व्याः कुन्तीपुत्रं युधिष्ठिरम्
धृतराष्ट्रश्च राजर्षिः सर्वाः प्रकृतयस्तथा
१२.४०.१७ततोऽनुवादयामासुः पणवानकदुन्दुभीः
धर्मराजोऽपि तत्सर्वं प्रतिजग्राह धर्मतः
१२.४०.१८पूजयामास तांश्चापि विधिवद्भूरिदक्षिणः
ततो निष्कसहस्रेण ब्राह्मणान्स्वस्ति वाचयत्
वेदाध्ययनसंपन्नाञ्शीलवृत्तसमन्वितान्
१२.४०.१९ते प्रीता ब्राह्मणा राजन्स्वस्त्यूचुर्जयमेव च
हंसा इव च नर्दन्तः प्रशशंसुर्युधिष्ठिरम्
१२.४०.२०युधिष्ठिर महाबाहो दिष्ट्या जयसि पाण्डव
दिष्ट्या स्वधर्मं प्राप्तोऽसि विक्रमेण महाद्युते
१२.४०.२१दिष्ट्या गाण्डीवधन्वा च भीमसेनश्च पाण्डवः
त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ
१२.४०.२२मुक्ता वीरक्षयादस्मात्संग्रामान्निहतद्विषः
क्षिप्रमुत्तरकालानि कुरु कार्याणि पाण्डव
१२.४०.२३ततः प्रत्यर्चितः सद्भिर्धर्मराजो युधिष्ठिरः
प्रतिपेदे महद्राज्यं सुहृद्भिः सह भारत