१२. शान्तिपर्व
१२.५.१नारद उवाच

१२.५.२आविष्कृतबलं कर्णं ज्ञात्वा राजा तु मागधः
आह्वयद्द्वैरथेनाजौ जरासंधो महीपतिः

१२.५.३तयोः समभवद्युद्धं दिव्यास्त्रविदुषोर्द्वयोः
युधि नानाप्रहरणैरन्योन्यमभिवर्षतोः

१२.५.४क्षीणबाणौ विधनुषौ भग्नखड्गौ महीं गतौ
बाहुभिः समसज्जेतामुभावपि बलान्वितौ

१२.५.५बाहुकण्टकयुद्धेन तस्य कर्णोऽथ युध्यतः
बिभेद संधिं देहस्य जरया श्लेषितस्य ह

१२.५.६स विकारं शरीरस्य दृष्ट्वा नृपतिरात्मनः
प्रीतोऽस्मीत्यब्रवीत्कर्णं वैरमुत्सृज्य भारत

१२.५.७प्रीत्या ददौ स कर्णाय मालिनीं नगरीमथ
अङ्गेषु नरशार्दूल स राजासीत्सपत्नजित्

१२.५.८पालयामास चम्पां तु कर्णः परबलार्दनः
दुर्योधनस्यानुमते तवापि विदितं तथा

१२.५.९एवं शस्त्रप्रतापेन प्रथितः सोऽभवत्क्षितौ
त्वद्धितार्थं सुरेन्द्रेण भिक्षितो वर्मकुण्डले

१२.५.१०स दिव्ये सहजे प्रादात्कुण्डले परमार्चिते
सहजं कवचं चैव मोहितो देवमायया

१२.५.११विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा
निहतो विजयेनाजौ वासुदेवस्य पश्यतः

१२.५.१२ब्राह्मणस्याभिशापेन रामस्य च महात्मनः
कुन्त्याश्च वरदानेन मायया च शतक्रतोः

१२.५.१३भीष्मावमानात्संख्यायां रथानामर्धकीर्तनात्
शल्यात्तेजोवधाच्चापि वासुदेवनयेन च

१२.५.१४रुद्रस्य देवराजस्य यमस्य वरुणस्य च
कुबेरद्रोणयोश्चैव कृपस्य च महात्मनः

१२.५.१५अस्त्राणि दिव्यान्यादाय युधि गाण्डीवधन्वना
हतो वैकर्तनः कर्णो दिवाकरसमद्युतिः

१२.५.१६एवं शप्तस्तव भ्राता बहुभिश्चापि वञ्चितः
न शोच्यः स नरव्याघ्रो युद्धे हि निधनं गतः