१२. शान्तिपर्व
१२.४१.१वैशंपायन उवाच

१२.४१.२प्रकृतीनां तु तद्वाक्यं देशकालोपसंहितम्
श्रुत्वा युधिष्ठिरो राजाथोत्तरं प्रत्यभाषत

१२.४१.३धन्याः पाण्डुसुता लोके येषां ब्राह्मणपुंगवाः
तथ्यान्वाप्यथ वातथ्यान्गुणानाहुः समागताः

१२.४१.४अनुग्राह्या वयं नूनं भवतामिति मे मतिः
यत्रैवं गुणसंपन्नानस्मान्ब्रूथ विमत्सराः

१२.४१.५धृतराष्ट्रो महाराजः पिता नो दैवतं परम्
शासनेऽस्य प्रिये चैव स्थेयं मत्प्रियकाङ्क्षिभिः

१२.४१.६एतदर्थं हि जीवामि कृत्वा ज्ञातिवधं महत्
अस्य शुश्रूषणं कार्यं मया नित्यमतन्द्रिणा

१२.४१.७यदि चाहमनुग्राह्यो भवतां सुहृदां ततः
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुमर्हथ

१२.४१.८एष नाथो हि जगतो भवतां च मया सह
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च
एतन्मनसि कर्तव्यं भवद्भिर्वचनं मम

१२.४१.९अनुगम्य च राजानं यथेष्टं गम्यतामिति
पौरजानपदान्सर्वान्विसृज्य कुरुनन्दनः
यौवराज्येन कौरव्यो भीमसेनमयोजयत्

१२.४१.१०मन्त्रे च निश्चये चैव षाड्गुण्यस्य च चिन्तने
विदुरं बुद्धिसंपन्नं प्रीतिमान्वै समादिशत्

१२.४१.११कृताकृतपरिज्ञाने तथायव्ययचिन्तने
संजयं योजयामास ऋद्धमृद्धैर्गुणैर्युतम्

१२.४१.१२बलस्य परिमाणे च भक्तवेतनयोस्तथा
नकुलं व्यादिशद्राजा कर्मिणामन्ववेक्षणे

१२.४१.१३परचक्रोपरोधे च दृप्तानां चावमर्दने
युधिष्ठिरो महाराजः फल्गुनं व्यादिदेश ह

१२.४१.१४द्विजानां वेदकार्येषु कार्येष्वन्येषु चैव हि
धौम्यं पुरोधसां श्रेष्ठं व्यादिदेश परंतपः

१२.४१.१५सहदेवं समीपस्थं नित्यमेव समादिशत्
तेन गोप्यो हि नृपतिः सर्वावस्थो विशां पते

१२.४१.१६यान्यानमन्यद्योग्यांश्च येषु येष्विह कर्मसु
तांस्तांस्तेष्वेव युयुजे प्रीयमाणो महीपतिः

१२.४१.१७विदुरं संजयं चैव युयुत्सुं च महामतिम्
अब्रवीत्परवीरघ्नो धर्मात्मा धर्मवत्सलः

१२.४१.१८उत्थायोत्थाय यत्कार्यमस्य राज्ञः पितुर्मम
सर्वं भवद्भिः कर्तव्यमप्रमत्तैर्यथातथम्

१२.४१.१९पौरजानपदानां च यानि कार्याणि नित्यशः
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः