१२.४२.१वैशंपायन उवाच
१२.४२.२ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे
श्राद्धानि कारयामास तेषां पृथगुदारधीः
१२.४२.३धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम्
सर्वकामगुणोपेतमन्नं गाश्च धनानि च
रत्नानि च विचित्राणि महार्हाणि महायशाः
१२.४२.४युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः
धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः
१२.४२.५विराटप्रभृतीनां च सुहृदामुपकारिणाम्
द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ
१२.४२.६ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन्
धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत्
१२.४२.७ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः
उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम्
१२.४२.८सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः
सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम्
१२.४२.९स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम्
कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन्
१२.४२.१०धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा
सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत्
१२.४२.११याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः
सर्वास्ताः कौरवो राजा संपूज्यापालयद्घृणी
१२.४२.१२दीनान्धकृपणानां च गृहाच्छादनभोजनैः
आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः
१२.४२.१३स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु
निःसपत्नः सुखी राजा विजहार युधिष्ठिरः