१२.४३.१वैशंपायन उवाच
१२.४३.२अभिषिक्तो महाप्राज्ञो राज्यं प्राप्य युधिष्ठिरः
दाशार्हं पुण्डरीकाक्षमुवाच प्राञ्जलिः शुचिः
१२.४३.३तव कृष्ण प्रसादेन नयेन च बलेन च
बुद्ध्या च यदुशार्दूल तथा विक्रमणेन च
१२.४३.४पुनः प्राप्तमिदं राज्यं पितृपैतामहं मया
नमस्ते पुण्डरीकाक्ष पुनः पुनररिंदम
१२.४३.५त्वामेकमाहुः पुरुषं त्वामाहुः सात्वतां पतिम्
नामभिस्त्वां बहुविधैः स्तुवन्ति परमर्षयः
१२.४३.६विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसंभव
विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम
१२.४३.७अदित्याः सप्तरात्रं तु पुराणे गर्भतां गतः
पृश्निगर्भस्त्वमेवैकस्त्रियुगं त्वां वदन्त्यपि
१२.४३.८शुचिश्रवा हृषीकेशो घृतार्चिर्हंस उच्यसे
त्रिचक्षुः शंभुरेकस्त्वं विभुर्दामोदरोऽपि च
१२.४३.९वराहोऽग्निर्बृहद्भानुर्वृषणस्तार्क्ष्यलक्षणः
अनीकसाहः पुरुषः शिपिविष्ट उरुक्रमः
१२.४३.१०वाचिष्ठ उग्रः सेनानीः सत्यो वाजसनिर्गुहः
अच्युतश्च्यावनोऽरीणां संकृतिर्विकृतिर्वृषः
१२.४३.११कृतवर्त्मा त्वमेवाद्रिर्वृषगर्भो वृषाकपिः
सिन्धुक्षिदूर्मिस्त्रिककुत्त्रिधामा त्रिवृदच्युतः
१२.४३.१२सम्राड्विराट्स्वराट्चैव सुरराड्धर्मदो भवः
विभुर्भूरभिभूः कृष्णः कृष्णवर्त्मा त्वमेव च
१२.४३.१३स्विष्टकृद्भिषगावर्तः कपिलस्त्वं च वामनः
यज्ञो ध्रुवः पतंगश्च जयत्सेनस्त्वमुच्यसे
१२.४३.१४शिखण्डी नहुषो बभ्रुर्दिवस्पृक्त्वं पुनर्वसुः
सुबभ्रुरुक्षो रुक्मस्त्वं सुषेणो दुन्दुभिस्तथा
१२.४३.१५गभस्तिनेमिः श्रीपद्मं पुष्करं पुष्पधारणः
ऋभुर्विभुः सर्वसूक्ष्मस्त्वं सावित्रं च पठ्यसे
१२.४३.१६अम्भोनिधिस्त्वं ब्रह्मा त्वं पवित्रं धाम धन्व च
हिरण्यगर्भं त्वामाहुः स्वधा स्वाहा च केशव
१२.४३.१७योनिस्त्वमस्य प्रलयश्च कृष्ण; त्वमेवेदं सृजसि विश्वमग्रे
विश्वं चेदं त्वद्वशे विश्वयोने; नमोऽस्तु ते शार्ङ्गचक्रासिपाणे
१२.४३.१८एवं स्तुतो धर्मराजेन कृष्णः; सभामध्ये प्रीतिमान्पुष्कराक्षः
तमभ्यनन्दद्भारतं पुष्कलाभि;र्वाग्भिर्ज्येष्ठं पाण्डवं यादवाग्र्यः