१२.४४.१वैशंपायन उवाच
१२.४४.२ततो विसर्जयामास सर्वाः प्रकृतयो नृपः
विविशुश्चाभ्यनुज्ञाता यथास्वानि गृहाणि च
१२.४४.३ततो युधिष्ठिरो राजा भीमं भीमपराक्रमम्
सान्त्वयन्नब्रवीद्धीमानर्जुनं यमजौ तथा
१२.४४.४शत्रुभिर्विविधैः शस्त्रैः कृत्तदेहा महारणे
श्रान्ता भवन्तः सुभृशं तापिताः शोकमन्युभिः
१२.४४.५अरण्ये दुःखवसतीर्मत्कृते पुरुषोत्तमाः
भवद्भिरनुभूताश्च यथा कुपुरुषैस्तथा
१२.४४.६यथासुखं यथाजोषं जयोऽयमनुभूयताम्
विश्रान्ताँल्लब्धविज्ञानाञ्श्वः समेतास्मि वः पुनः
१२.४४.७ततो दुर्योधनगृहं प्रासादैरुपशोभितम्
बहुरत्नसमाकीर्णं दासीदाससमाकुलम्
१२.४४.८धृतराष्ट्राभ्यनुज्ञातं भ्रात्रा दत्तं वृकोदरः
प्रतिपेदे महाबाहुर्मन्दरं मघवानिव
१२.४४.९यथा दुर्योधनगृहं तथा दुःशासनस्य च
प्रासादमालासंयुक्तं हेमतोरणभूषितम्
१२.४४.१०दासीदाससुसंपूर्णं प्रभूतधनधान्यवत्
प्रतिपेदे महाबाहुरर्जुनो राजशासनात्
१२.४४.११दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम्
कुबेरभवनप्रख्यं मणिहेमविभूषितम्
१२.४४.१२नकुलाय वरार्हाय कर्शिताय महावने
ददौ प्रीतो महाराज धर्मराजो युधिष्ठिरः
१२.४४.१३दुर्मुखस्य च वेश्माग्र्यं श्रीमत्कनकभूषितम्
पूर्णं पद्मदलाक्षीणां स्त्रीणां शयनसंकुलम्
१२.४४.१४प्रददौ सहदेवाय सततं प्रियकारिणे
मुमुदे तच्च लब्ध्वा स कैलासं धनदो यथा
१२.४४.१५युयुत्सुर्विदुरश्चैव संजयश्च महाद्युतिः
सुधर्मा चैव धौम्यश्च यथास्वं जग्मुरालयान्
१२.४४.१६सह सात्यकिना शौरिरर्जुनस्य निवेशनम्
विवेश पुरुषव्याघ्रो व्याघ्रो गिरिगुहामिव
१२.४४.१७तत्र भक्षान्नपानैस्ते समुपेताः सुखोषिताः
सुखप्रबुद्धा राजानमुपतस्थुर्युधिष्ठिरम्