१२.६.१वैशंपायन उवाच
१२.६.२एतावदुक्त्वा देवर्षिर्विरराम स नारदः
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः
१२.६.३तं दीनमनसं वीरमधोवदनमातुरम्
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा
१२.६.४कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना
अब्रवीन्मधुराभाषा काले वचनमर्थवत्
१२.६.५युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि
जहि शोकं महाप्राज्ञ शृणु चेदं वचो मम
१२.६.६यतितः स मया पूर्वं भ्रात्र्यं ज्ञापयितुं तव
भास्करेण च देवेन पित्रा धर्मभृतां वर
१२.६.७यद्वाच्यं हितकामेन सुहृदा भूतिमिच्छता
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः
१२.६.८न चैनमशकद्भानुरहं वा स्नेहकारणैः
पुरा प्रत्यनुनेतुं वा नेतुं वाप्येकतां त्वया
१२.६.९ततः कालपरीतः स वैरस्योद्धुक्षणे रतः
प्रतीपकारी युष्माकमिति चोपेक्षितो मया
१२.६.१०इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः
उवाच वाक्यं धर्मात्मा शोकव्याकुलचेतनः
१२.६.११भवत्या गूढमन्त्रत्वात्पीडितोऽस्मीत्युवाच ताम्
शशाप च महातेजाः सर्वलोकेषु च स्त्रियः
न गुह्यं धारयिष्यन्तीत्यतिदुःखसमन्वितः
१२.६.१२स राजा पुत्रपौत्राणां संबन्धिसुहृदां तथा
स्मरन्नुद्विग्नहृदयो बभूवास्वस्थचेतनः
१२.६.१३ततः शोकपरीतात्मा सधूम इव पावकः
निर्वेदमकरोद्धीमान्राजा संतापपीडितः