१२. शान्तिपर्व
१२.७.१वैशंपायन उवाच

१२.७.२युधिष्ठिरस्तु धर्मात्मा शोकव्याकुलचेतनः
शुशोच दुःखसंतप्तः स्मृत्वा कर्णं महारथम्

१२.७.३आविष्टो दुःखशोकाभ्यां निःश्वसंश्च पुनः पुनः
दृष्ट्वार्जुनमुवाचेदं वचनं शोककर्शितः

१२.७.४यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम्
ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम्

१२.७.५अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल
आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः

१२.७.६धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम्
धिगस्त्वमर्षं येनेमामापदं गमिता वयम्

१२.७.७साधु क्षमा दमः शौचमवैरोध्यममत्सरः
अहिंसा सत्यवचनं नित्यानि वनचारिणाम्

१२.७.८वयं तु लोभान्मोहाच्च स्तम्भं मानं च संश्रिताः
इमामवस्थामापन्ना राज्यलेशबुभुक्षया

१२.७.९त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत्
बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः

१२.७.१०ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान्
संपरित्यज्य जीवामो हीनार्था हतबान्धवाः

१२.७.११आमिषे गृध्यमानानामशुनां नः शुनामिव
आमिषं चैव नो नष्टमामिषस्य च भोजिनः

१२.७.१२न पृथिव्या सकलया न सुवर्णस्य राशिभिः
न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः

१२.७.१३संयुक्ताः काममन्युभ्यां क्रोधामर्षसमन्विताः
मृत्युयानं समारुह्य गता वैवस्वतक्षयम्

१२.७.१४बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान्
तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया

१२.७.१५उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः
लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति

१२.७.१६यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि
संभाविता जातबलास्ते दद्युर्यदि नः सुखम्
इह चामुत्र चैवेति कृपणाः फलहेतुकाः

१२.७.१७तासामयं समारम्भो निवृत्तः केवलोऽफलः
यदासां निहताः पुत्रा युवानो मृष्टकुण्डलाः

१२.७.१८अभुक्त्वा पार्थिवान्भोगानृणान्यनवदाय च
पितृभ्यो देवताभ्यश्च गता वैवस्वतक्षयम्

१२.७.१९यदैषामङ्ग पितरौ जातौ काममयाविव
संजातबलरूपेषु तदैव निहता नृपाः

१२.७.२०संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः
न ते जन्मफलं किंचिद्भोक्तारो जातु कर्हिचित्

१२.७.२१पाञ्चालानां कुरूणां च हता एव हि येऽहताः
ते वयं त्वधमाँल्लोकान्प्रपद्येम स्वकर्मभिः

१२.७.२२वयमेवास्य लोकस्य विनाशे कारणं स्मृताः
धृतराष्ट्रस्य पुत्रेण निकृत्या प्रत्यपत्स्महि

१२.७.२३सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः
मिथ्यावृत्तः स सततमस्मास्वनपकारिषु

१२.७.२४अंशकामा वयं ते च न चास्माभिर्न तैर्जितम्
न तैर्भुक्तेयमवनिर्न नार्यो गीतवादितम्

१२.७.२५नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम्
न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः

१२.७.२६ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः
धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः

१२.७.२७तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम्
अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा
असंशयं धृतराष्ट्रो यथैवाहं तथा गतः

१२.७.२८अनियम्याशुचिं लुब्धं पुत्रं कामवशानुगम्
पतितो यशसो दीप्ताद्घातयित्वा सहोदरान्

१२.७.२९इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः
अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि

१२.७.३०को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने
यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ

१२.७.३१आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः
प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव

१२.७.३२सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः
दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम्
अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम्

१२.७.३३कुलस्यास्यान्तकरणं दुर्मतिं पापकारिणम्
राजा राष्ट्रेश्वरं कृत्वा धृतराष्ट्रोऽद्य शोचति

१२.७.३४हताः शूराः कृतं पापं विषयः स्वो विनाशितः
हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम्

१२.७.३५धनंजय कृतं पापं कल्याणेनोपहन्यते
त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः

१२.७.३६त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा
प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा

१२.७.३७स धनंजय निर्द्वंद्वो मुनिर्ज्ञानसमन्वितः
वनमामन्त्र्य वः सर्वान्गमिष्यामि परंतप

१२.७.३८न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः
परिग्रहवता तन्मे प्रत्यक्षमरिसूदन

१२.७.३९मया निसृष्टं पापं हि परिग्रहमभीप्सता
जन्मक्षयनिमित्तं च शक्यं प्राप्तुमिति श्रुतिः

१२.७.४०स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च
गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा

१२.७.४१प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम्
न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम

१२.७.४२एतावदुक्त्वा वचनं धर्मराजो युधिष्ठिरः
व्युपारमत्ततः पार्थः कनीयान्प्रत्यभाषत