१२. शान्तिपर्व
१२.६१.१भीष्म उवाच

१२.६१.२आश्रमाणां महाबाहो शृणु सत्यपराक्रम
चतुर्णामिह वर्णानां कर्माणि च युधिष्ठिर

१२.६१.३वानप्रस्थं भैक्षचर्यां गार्हस्थ्यं च महाश्रमम्
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम्

१२.६१.४जटाकरणसंस्कारं द्विजातित्वमवाप्य च
आधानादीनि कर्माणि प्राप्य वेदमधीत्य च

१२.६१.५सदारो वाप्यदारो वा आत्मवान्संयतेन्द्रियः
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात्

१२.६१.६तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित्
ऊर्ध्वरेताः प्रजायित्वा गच्छत्यक्षरसात्मताम्

१२.६१.७एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम्
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता

१२.६१.८चरितब्रह्मचर्यस्य ब्राह्मणस्य विशां पते
भैक्षचर्यास्वधीकारः प्रशस्त इह मोक्षिणः

१२.६१.९यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः

१२.६१.१०निराशीः स्यात्सर्वसमो निर्भोगो निर्विकारवान्
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम्

१२.६१.११अधीत्य वेदान्कृतसर्वकृत्यः; संतानमुत्पाद्य सुखानि भुक्त्वा
समाहितः प्रचरेद्दुश्चरं तं; गार्हस्थ्यधर्मं मुनिधर्मदृष्टम्

१२.६१.१२स्वदारतुष्ट ऋतुकालगामी; नियोगसेवी नशठो नजिह्मः
मिताशनो देवपरः कृतज्ञः; सत्यो मृदुश्चानृशंसः क्षमावान्

१२.६१.१३दान्तो विधेयो हव्यकव्येऽप्रमत्तो; अन्नस्य दाता सततं द्विजेभ्यः
अमत्सरी सर्वलिङ्गिप्रदाता; वैताननित्यश्च गृहाश्रमी स्यात्

१२.६१.१४अथात्र नारायणगीतमाहु;र्महर्षयस्तात महानुभावाः
महार्थमत्यर्थतपःप्रयुक्तं; तदुच्यमानं हि मया निबोध

१२.६१.१५सत्यार्जवं चातिथिपूजनं च; धर्मस्तथार्थश्च रतिश्च दारे
निषेवितव्यानि सुखानि लोके; ह्यस्मिन्परे चैव मतं ममैतत्

१२.६१.१६भरणं पुत्रदाराणां वेदानां पारणं तथा
सतां तमाश्रमं श्रेष्ठं वदन्ति परमर्षयः

१२.६१.१७एवं हि यो ब्राह्मणो यज्ञशीलो; गार्हस्थ्यमध्यावसते यथावत्
गृहस्थवृत्तिं प्रविशोध्य सम्य;क्स्वर्गे विशुद्धं फलमाप्नुते सः

१२.६१.१८तस्य देहपरित्यागादिष्टाः कामाक्षया मताः
आनन्त्यायोपतिष्ठन्ति सर्वतोक्षिशिरोमुखाः

१२.६१.१९खादन्नेको जपन्नेकः सर्पन्नेको युधिष्ठिर
एकस्मिन्नेव आचार्ये शुश्रूषुर्मलपङ्कवान्

१२.६१.२०ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी
अविचार्य तथा वेदं कृत्यं कुर्वन्वसेत्सदा

१२.६१.२१शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च
षट्कर्मस्वनिवृत्तश्च नप्रवृत्तश्च सर्वशः

१२.६१.२२न चरत्यधिकारेण सेवितं द्विषतो न च
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते