१२. शान्तिपर्व
१२.८.१वैशंपायन उवाच

१२.८.२अथार्जुन उवाचेदमधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः

१२.८.३दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः
स्मयमानो महातेजाः सृक्किणी संलिहन्मुहुः

१२.८.४अहो दुःखमहो कृच्छ्रमहो वैक्लव्यमुत्तमम्
यत्कृत्वामानुषं कर्म त्यजेथाः श्रियमुत्तमाम्

१२.८.५शत्रून्हत्वा महीं लब्ध्वा स्वधर्मेणोपपादिताम्
हतामित्रः कथं सर्वं त्यजेथा बुद्धिलाघवात्

१२.८.६क्लीबस्य हि कुतो राज्यं दीर्घसूत्रस्य वा पुनः
किमर्थं च महीपालानवधीः क्रोधमूर्छितः

१२.८.७यो ह्याजिजीविषेद्भैक्ष्यं कर्मणा नैव केनचित्
समारम्भान्बुभूषेत हतस्वस्तिरकिंचनः
सर्वलोकेषु विख्यातो न पुत्रपशुसंहितः

१२.८.८कापालीं नृप पापिष्ठां वृत्तिमास्थाय जीवतः
संत्यज्य राज्यमृद्धं ते लोकोऽयं किं वदिष्यति

१२.८.९सर्वारम्भान्समुत्सृज्य हतस्वस्तिरकिंचनः
कस्मादाशंससे भैक्ष्यं चर्तुं प्राकृतवत्प्रभो

१२.८.१०अस्मिन्राजकुले जातो जित्वा कृत्स्नां वसुंधराम्
धर्मार्थावखिलौ हित्वा वनं मौढ्यात्प्रतिष्ठसे

१२.८.११यदीमानि हवींषीह विमथिष्यन्त्यसाधवः
भवता विप्रहीणानि प्राप्तं त्वामेव किल्बिषम्

१२.८.१२आकिंचन्यमनाशास्यमिति वै नहुषोऽब्रवीत्
कृत्या नृशंसा ह्यधने धिगस्त्वधनतामिह

१२.८.१३अश्वस्तनमृषीणां हि विद्यते वेद तद्भवान्
यं त्विमं धर्ममित्याहुर्धनादेष प्रवर्तते

१२.८.१४धर्मं संहरते तस्य धनं हरति यस्य यः
ह्रियमाणे धने राजन्वयं कस्य क्षमेमहि

१२.८.१५अभिशस्तवत्प्रपश्यन्ति दरिद्रं पार्श्वतः स्थितम्
दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति

१२.८.१६पतितः शोच्यते राजन्निर्धनश्चापि शोच्यते
विशेषं नाधिगच्छामि पतितस्याधनस्य च

१२.८.१७अर्थेभ्यो हि विवृद्धेभ्यः संभृतेभ्यस्ततस्ततः
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः

१२.८.१८अर्थाद्धर्मश्च कामश्च स्वर्गश्चैव नराधिप
प्राणयात्रा हि लोकस्य विनार्थं न प्रसिध्यति

१२.८.१९अर्थेन हि विहीनस्य पुरुषस्याल्पमेधसः
व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा

१२.८.२०यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः

१२.८.२१अधनेनार्थकामेन नार्थः शक्यो विवित्सता
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः

१२.८.२२धर्मः कामश्च स्वर्गश्च हर्षः क्रोधः श्रुतं दमः
अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप

१२.८.२३धनात्कुलं प्रभवति धनाद्धर्मः प्रवर्तते
नाधनस्यास्त्ययं लोको न परः पुरुषोत्तम

१२.८.२४नाधनो धर्मकृत्यानि यथावदनुतिष्ठति
धनाद्धि धर्मः स्रवति शैलाद्गिरिनदी यथा

१२.८.२५यः कृशाश्वः कृशगवः कृशभृत्यः कृशातिथिः
स वै राजन्कृशो नाम न शरीरकृशः कृशः

१२.८.२६अवेक्षस्व यथान्यायं पश्य देवासुरं यथा
राजन्किमन्यज्ज्ञातीनां वधादृध्यन्ति देवताः

१२.८.२७न चेद्धर्तव्यमन्यस्य कथं तद्धर्ममारभेत्
एतावानेव वेदेषु निश्चयः कविभिः कृतः

१२.८.२८अध्येतव्या त्रयी विद्या भवितव्यं विपश्चिता
सर्वथा धनमाहार्यं यष्टव्यं चापि यत्नतः

१२.८.२९द्रोहाद्देवैरवाप्तानि दिवि स्थानानि सर्वशः
इति देवा व्यवसिता वेदवादाश्च शाश्वताः

१२.८.३०अधीयन्ते तपस्यन्ति यजन्ते याजयन्ति च
कृत्स्नं तदेव च श्रेयो यदप्याददतेऽन्यतः

१२.८.३१न पश्यामोऽनपहृतं धनं किंचित्क्वचिद्वयम्
एवमेव हि राजानो जयन्ति पृथिवीमिमाम्

१२.८.३२जित्वा ममत्वं ब्रुवते पुत्रा इव पितुर्धने
राजर्षयो जितस्वर्गा धर्मो ह्येषां निगद्यते

१२.८.३३यथैव पूर्णादुदधेः स्यन्दन्त्यापो दिशो दश
एवं राजकुलाद्वित्तं पृथिवीं प्रतितिष्ठति

१२.८.३४आसीदियं दिलीपस्य नृगस्य नहुषस्य च
अम्बरीषस्य मान्धातुः पृथिवी सा त्वयि स्थिता

१२.८.३५स त्वां द्रव्यमयो यज्ञः संप्राप्तः सर्वदक्षिणः
तं चेन्न यजसे राजन्प्राप्तस्त्वं देवकिल्बिषम्

१२.८.३६येषां राजाश्वमेधेन यजते दक्षिणावता
उपेत्य तस्यावभृथं पूताः सर्वे भवन्ति ते

१२.८.३७विश्वरूपो महादेवः सर्वमेधे महामखे
जुहाव सर्वभूतानि तथैवात्मानमात्मना

१२.८.३८शाश्वतोऽयं भूतिपथो नास्यान्तमनुशुश्रुम
महान्दाशरथः पन्था मा राजन्कापथं गमः