१२. शान्तिपर्व
१२.७३.१भीष्म उवाच

१२.७३.२य एव तु सतो रक्षेदसतश्च निबर्हयेत्
स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः

१२.७३.३अत्राप्युदाहरन्तीममितिहासं पुरातनम्
पुरूरवस ऐलस्य संवादं मातरिश्वनः

१२.७३.४ऐल उवाच

१२.७३.५कुतः स्विद्ब्राह्मणो जातो वर्णाश्चापि कुतस्त्रयः
कस्माच्च भवति श्रेयानेतद्वायो विचक्ष्व मे

१२.७३.६वायुरुवाच

१२.७३.७ब्रह्मणो मुखतः सृष्टो ब्राह्मणो राजसत्तम
बाहुभ्यां क्षत्रियः सृष्ट ऊरुभ्यां वैश्य उच्यते

१२.७३.८वर्णानां परिचर्यार्थं त्रयाणां पुरुषर्षभ
वर्णश्चतुर्थः पश्चात्तु पद्भ्यां शूद्रो विनिर्मितः

१२.७३.९ब्राह्मणो जातमात्रस्तु पृथिवीमन्वजायत
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये

१२.७३.१०ततः पृथिव्या गोप्तारं क्षत्रियं दण्डधारिणम्
द्वितीयं वर्णमकरोत्प्रजानामनुगुप्तये

१२.७३.११वैश्यस्तु धनधान्येन त्रीन्वर्णान्बिभृयादिमान्
शूद्रो ह्येनान्परिचरेदिति ब्रह्मानुशासनम्

१२.७३.१२ऐल उवाच

१२.७३.१३द्विजस्य क्षत्रबन्धोर्वा कस्येयं पृथिवी भवेत्
धर्मतः सह वित्तेन सम्यग्वायो प्रचक्ष्व मे

१२.७३.१४वायुरुवाच

१२.७३.१५विप्रस्य सर्वमेवैतद्यत्किंचिज्जगतीगतम्
ज्येष्ठेनाभिजनेनेह तद्धर्मकुशला विदुः

१२.७३.१६स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च
गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः

१२.७३.१७पत्यभावे यथा स्त्री हि देवरं कुरुते पतिम्
आनन्तर्यात्तथा क्षत्रं पृथिवी कुरुते पतिम्

१२.७३.१८एष ते प्रथमः कल्प आपद्यन्यो भवेदतः
यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि

१२.७३.१९यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत्
श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने

१२.७३.२०स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत्
यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया

१२.७३.२१ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक्
श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम्

१२.७३.२२राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम्
शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः

१२.७३.२३तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति
तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः

१२.७३.२४एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः
सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः

१२.७३.२५राष्ट्रे चरन्ति यं धर्मं राज्ञा साध्वभिरक्षिताः
चतुर्थं तस्य धर्मस्य राजा भागं स विन्दति

१२.७३.२६देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः
यज्ञमेवोपजीवन्ति नास्ति चेष्टमराजके

१२.७३.२७इतो दत्तेन जीवन्ति देवताः पितरस्तथा
राजन्येवास्य धर्मस्य योगक्षेमः प्रतिष्ठितः

१२.७३.२८छायायामप्सु वायौ च सुखमुष्णेऽधिगच्छति
अग्नौ वाससि सूर्ये च सुखं शीतेऽधिगच्छति

१२.७३.२९शब्दे स्पर्शे रसे रूपे गन्धे च रमते मनः
तेषु भोगेषु सर्वेषु नभीतो लभते सुखम्

१२.७३.३०अभयस्यैव यो दाता तस्यैव सुमहत्फलम्
न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते

१२.७३.३१इन्द्रो राजा यमो राजा धर्मो राजा तथैव च
राजा बिभर्ति रूपाणि राज्ञा सर्वमिदं धृतम्