१२. शान्तिपर्व
१२.७८.१युधिष्ठिर उवाच

१२.७८.२केषां राजा प्रभवति वित्तस्य भरतर्षभ
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह

१२.७८.३भीष्म उवाच

१२.७८.४अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम्
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत

१२.७८.५विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः

१२.७८.६यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः
राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप

१२.७८.७अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन्

१२.७८.८अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं केकयराजेन ह्रियमाणेन रक्षसा

१२.७८.९केकयानामधिपतिं रक्षो जग्राह दारुणम्
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम्

१२.७८.१०राजोवाच

१२.७८.११न मे स्तेनो जनपदे न कदर्यो न मद्यपः
नानाहिताग्निर्नायज्वा मामकान्तरमाविशः

१२.७८.१२न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः
नानाहिताग्निर्विषये मामकान्तरमाविशः

१२.७८.१३नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम
अधीते नाव्रती कश्चिन्मामकान्तरमाविशः

१२.७८.१४अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः

१२.७८.१५पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः
ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः

१२.७८.१६न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः
नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः

१२.७८.१७ब्राह्मणान्परिरक्षन्ति संग्रामेष्वपलायिनः
क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः

१२.७८.१८कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया
अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः

१२.७८.१९संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः
मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः

१२.७८.२०त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः
मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः

१२.७८.२१कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
संविभक्तास्मि सर्वेषां मामकान्तरमाविशः

१२.७८.२२कुलदेशादिधर्माणां प्रथितानां यथाविधि
अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः

१२.७८.२३तपस्विनो मे विषये पूजिताः परिपालिताः
संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः

१२.७८.२४नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम्
स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः

१२.७८.२५नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः
अनृत्विजं हुतं नास्ति मामकान्तरमाविशः

१२.७८.२६नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः
राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः

१२.७८.२७वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित्
स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः

१२.७८.२८दानेन दिव्यानभिवाञ्छामि लोका;न्सत्येनाथो ब्राह्मणानां च गुप्त्या
शुश्रूषया चापि गुरूनुपैमि; न मे भयं विद्यते राक्षसेभ्यः

१२.७८.२९न मे राष्ट्रे विधवा ब्रह्मबन्धु;र्न ब्राह्मणः कृपणो नोत चोरः
न पारजायी न च पापकर्मा; न मे भयं विद्यते राक्षसेभ्यः

१२.७८.३०न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम्
धर्मार्थं युध्यमानस्य मामकान्तरमाविशः

१२.७८.३१गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम
आशासते जना राष्ट्रे मामकान्तरमाविशः

१२.७८.३२राक्षस उवाच

१२.७८.३३यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे
तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम्

१२.७८.३४येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय
न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात्

१२.७८.३५येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम्
प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः

१२.७८.३६भीष्म उवाच

१२.७८.३७तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः
आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते

१२.७८.३८तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात्

१२.७८.३९य एवं वर्तते राजा पौरजानपदेष्विह
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्