१२. शान्तिपर्व
१२.७९.१युधिष्ठिर उवाच

१२.७९.२व्याख्याता क्षत्रधर्मेण वृत्तिरापत्सु भारत
कथंचिद्वैश्यधर्मेण जीवेद्वा ब्राह्मणो न वा

१२.७९.३भीष्म उवाच

१२.७९.४अशक्तः क्षत्रधर्मेण वैश्यधर्मेण वर्तयेत्
कृषिगोरक्षमास्थाय व्यसने वृत्तिसंक्षये

१२.७९.५युधिष्ठिर उवाच

१२.७९.६कानि पण्यानि विक्रीणन्स्वर्गलोकान्न हीयते
ब्राह्मणो वैश्यधर्मेण वर्तयन्भरतर्षभ

१२.७९.७भीष्म उवाच

१२.७९.८सुरा लवणमित्येव तिलान्केसरिणः पशून्
ऋषभान्मधु मांसं च कृतान्नं च युधिष्ठिर

१२.७९.९सर्वास्ववस्थास्वेतानि ब्राह्मणः परिवर्जयेत्
एतेषां विक्रयात्तात ब्राह्मणो नरकं व्रजेत्

१२.७९.१०अजोऽग्निर्वरुणो मेषः सूर्योऽश्वः पृथिवी विराट्
धेनुर्यज्ञश्च सोमश्च न विक्रेयाः कथंचन

१२.७९.११पक्वेनामस्य निमयं न प्रशंसन्ति साधवः
निमयेत्पक्वमामेन भोजनार्थाय भारत

१२.७९.१२वयं सिद्धमशिष्यामो भवान्साधयतामिदम्
एवं समीक्ष्य निमयन्नाधर्मोऽस्ति कदाचन

१२.७९.१३अत्र ते वर्तयिष्यामि यथा धर्मः पुरातनः
व्यवहारप्रवृत्तानां तन्निबोध युधिष्ठिर

१२.७९.१४भवतेऽहं ददानीदं भवानेतत्प्रयच्छतु
रुचिते वर्तते धर्मो न बलात्संप्रवर्तते

१२.७९.१५इत्येवं संप्रवर्तन्त व्यवहाराः पुरातनाः
ऋषीणामितरेषां च साधु चेदमसंशयम्

१२.७९.१६युधिष्ठिर उवाच

१२.७९.१७अथ तात यदा सर्वाः शस्त्रमाददते प्रजाः
व्युत्क्रामन्ति स्वधर्मेभ्यः क्षत्रस्य क्षीयते बलम्

१२.७९.१८राजा त्राता न लोके स्यात्किं तदा स्यात्परायणम्
एतन्मे संशयं ब्रूहि विस्तरेण पितामह

१२.७९.१९भीष्म उवाच

१२.७९.२०दानेन तपसा यज्ञैरद्रोहेण दमेन च
ब्राह्मणप्रमुखा वर्णाः क्षेममिच्छेयुरात्मनः

१२.७९.२१तेषां ये वेदबलिनस्त उत्थाय समन्ततः
राज्ञो बलं वर्धयेयुर्महेन्द्रस्येव देवताः

१२.७९.२२राज्ञो हि क्षीयमाणस्य ब्रह्मैवाहुः परायणम्
तस्माद्ब्रह्मबलेनैव समुत्थेयं विजानता

१२.७९.२३यदा तु विजयी राजा क्षेमं राष्ट्रेऽभिसंदधेत्
तदा वर्णा यथाधर्ममाविशेयुः स्वकर्मसु

१२.७९.२४उन्मर्यादे प्रवृत्ते तु दस्युभिः संकरे कृते
सर्वे वर्णा न दुष्येयुः शस्त्रवन्तो युधिष्ठिर

१२.७९.२५युधिष्ठिर उवाच

१२.७९.२६अथ चेत्सर्वतः क्षत्रं प्रदुष्येद्ब्राह्मणान्प्रति
कस्तस्य ब्राह्मणस्त्राता को धर्मः किं परायणम्

१२.७९.२७भीष्म उवाच

१२.७९.२८तपसा ब्रह्मचर्येण शस्त्रेण च बलेन च
अमायया मायया च नियन्तव्यं तदा भवेत्

१२.७९.२९क्षत्रस्याभिप्रवृद्धस्य ब्राह्मणेषु विशेषतः
ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम्

१२.७९.३०अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति

१२.७९.३१यदा छिनत्त्ययोऽश्मानमग्निश्चापोऽभिपद्यते
क्षत्रं च ब्राह्मणं द्वेष्टि तदा शाम्यन्ति ते त्रयः

१२.७९.३२तस्माद्ब्रह्मणि शाम्यन्ति क्षत्रियाणां युधिष्ठिर
समुदीर्णान्यजेयानि तेजांसि च बलानि च

१२.७९.३३ब्रह्मवीर्ये मृदूभूते क्षत्रवीर्ये च दुर्बले
दुष्टेषु सर्ववर्णेषु ब्राह्मणान्प्रति सर्वशः

१२.७९.३४ये तत्र युद्धं कुर्वन्ति त्यक्त्वा जीवितमात्मनः
ब्राह्मणान्परिरक्षन्तो धर्ममात्मानमेव च

१२.७९.३५मनस्विनो मन्युमन्तः पुण्यलोका भवन्ति ते
ब्राह्मणार्थं हि सर्वेषां शस्त्रग्रहणमिष्यते

१२.७९.३६अति स्विष्टस्वधीतानां लोकानति तपस्विनाम्
अनाशकाग्न्योर्विशतां शूरा यान्ति परां गतिम्
एवमेवात्मनस्त्यागान्नान्यं धर्मं विदुर्जनाः

१२.७९.३७तेभ्यो नमश्च भद्रं च ये शरीराणि जुह्वति
ब्रह्मद्विषो नियच्छन्तस्तेषां नोऽस्तु सलोकता
ब्रह्मलोकजितः स्वर्ग्यान्वीरांस्तान्मनुरब्रवीत्

१२.७९.३८यथाश्वमेधावभृथे स्नाताः पूता भवन्त्युत
दुष्कृतः सुकृतश्चैव तथा शस्त्रहता रणे

१२.७९.३९भवत्यधर्मो धर्मो हि धर्माधर्मावुभावपि
कारणाद्देशकालस्य देशकालः स तादृशः

१२.७९.४०मैत्राः क्रूराणि कुर्वन्तो जयन्ति स्वर्गमुत्तमम्
धर्म्याः पापानि कुर्वन्तो गच्छन्ति परमां गतिम्

१२.७९.४१ब्राह्मणस्त्रिषु कालेषु शस्त्रं गृह्णन्न दुष्यति
आत्मत्राणे वर्णदोषे दुर्गस्य नियमेषु च

१२.७९.४२युधिष्ठिर उवाच

१२.७९.४३अभ्युत्थिते दस्युबले क्षत्रार्थे वर्णसंकरे
संप्रमूढेषु वर्णेषु यद्यन्योऽभिभवेद्बली

१२.७९.४४ब्राह्मणो यदि वा वैश्यः शूद्रो वा राजसत्तम
दस्युभ्योऽथ प्रजा रक्षेद्दण्डं धर्मेण धारयन्

१२.७९.४५कार्यं कुर्यान्न वा कुर्यात्संवार्यो वा भवेन्न वा
न स्म शस्त्रं ग्रहीतव्यमन्यत्र क्षत्रबन्धुतः

१२.७९.४६भीष्म उवाच

१२.७९.४७अपारे यो भवेत्पारमप्लवे यः प्लवो भवेत्
शूद्रो वा यदि वाप्यन्यः सर्वथा मानमर्हति

१२.७९.४८यमाश्रित्य नरा राजन्वर्तयेयुर्यथासुखम्
अनाथाः पाल्यमाना वै दस्युभिः परिपीडिताः

१२.७९.४९तमेव पूजयेरंस्ते प्रीत्या स्वमिव बान्धवम्
महद्ध्यभीक्ष्णं कौरव्य कर्ता सन्मानमर्हति

१२.७९.५०किमुक्ष्णावहता कृत्यं किं धेन्वा चाप्यदुग्धया
वन्ध्यया भार्यया कोऽर्थः कोऽर्थो राज्ञाप्यरक्षता

१२.७९.५१यथा दारुमयो हस्ती यथा चर्ममयो मृगः
यथा ह्यनेत्रः शकटः पथि क्षेत्रं यथोषरम्

१२.७९.५२एवं ब्रह्मानधीयानं राजा यश्च न रक्षिता
न वर्षति च यो मेघः सर्व एते निरर्थकाः

१२.७९.५३नित्यं यस्तु सतो रक्षेदसतश्च निबर्हयेत्
स एव राजा कर्तव्यस्तेन सर्वमिदं धृतम्