१२. शान्तिपर्व
१२.९.१युधिष्ठिर उवाच

१२.९.२मुहूर्तं तावदेकाग्रो मनःश्रोत्रेऽन्तरात्मनि
धारयित्वापि ते श्रुत्वा रोचतां वचनं मम

१२.९.३सार्थगम्यमहं मार्गं न जातु त्वत्कृते पुनः
गच्छेयं तद्गमिष्यामि हित्वा ग्राम्यसुखान्युत

१२.९.४क्षेम्यश्चैकाकिना गम्यः पन्थाः कोऽस्तीति पृच्छ माम्
अथ वा नेच्छसि प्रष्टुमपृच्छन्नपि मे शृणु

१२.९.५हित्वा ग्राम्यसुखाचारं तप्यमानो महत्तपः
अरण्ये फलमूलाशी चरिष्यामि मृगैः सह

१२.९.६जुह्वानोऽग्निं यथाकालमुभौ कालावुपस्पृशन्
कृशः परिमिताहारश्चर्मचीरजटाधरः

१२.९.७शीतवातातपसहः क्षुत्पिपासाश्रमक्षमः
तपसा विधिदृष्टेन शरीरमुपशोषयन्

१२.९.८मनःकर्णसुखा नित्यं शृण्वन्नुच्चावचा गिरः
मुदितानामरण्येषु वसतां मृगपक्षिणाम्

१२.९.९आजिघ्रन्पेशलान्गन्धान्फुल्लानां वृक्षवीरुधाम्
नानारूपान्वने पश्यन्रमणीयान्वनौकसः

१२.९.१०वानप्रस्थजनस्यापि दर्शनं कुलवासिनः
नाप्रियाण्याचरिष्यामि किं पुनर्ग्रामवासिनाम्

१२.९.११एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन्
पितॄन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन्

१२.९.१२एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम्
सेवमानः प्रतीक्षिष्ये देहस्यास्य समापनम्

१२.९.१३अथ वैकोऽहमेकाहमेकैकस्मिन्वनस्पतौ
चरन्भैक्ष्यं मुनिर्मुण्डः क्षपयिष्ये कलेवरम्

१२.९.१४पांसुभिः समवच्छन्नः शून्यागारप्रतिश्रयः
वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः

१२.९.१५न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः
निराशीर्निर्ममो भूत्वा निर्द्वंद्वो निष्परिग्रहः

१२.९.१६आत्मारामः प्रसन्नात्मा जडान्धबधिराकृतिः
अकुर्वाणः परैः कांचित्संविदं जातु केनचित्

१२.९.१७जङ्गमाजङ्गमान्सर्वान्नविहिंसंश्चतुर्विधान्
प्रजाः सर्वाः स्वधर्मस्थाः समः प्राणभृतः प्रति

१२.९.१८न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्
प्रसन्नवदनो नित्यं सर्वेन्द्रियसुसंयतः

१२.९.१९अपृच्छन्कस्यचिन्मार्गं व्रजन्येनैव केनचित्
न देशं न दिशं कांचिद्गन्तुमिच्छन्विशेषतः

१२.९.२०गमने निरपेक्षश्च पश्चादनवलोकयन्
ऋजुः प्रणिहितो गच्छंस्त्रसस्थावरवर्जकः

१२.९.२१स्वभावस्तु प्रयात्यग्रे प्रभवन्त्यशनान्यपि
द्वंद्वानि च विरुद्धानि तानि सर्वाण्यचिन्तयन्

१२.९.२२अल्पं वास्वादु वा भोज्यं पूर्वालाभेन जातु चित्
अन्येष्वपि चरँल्लाभमलाभे सप्त पूरयन्

१२.९.२३विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीतपात्रसंचारे काले विगतभिक्षुके

१२.९.२४एककालं चरन्भैक्ष्यं गृहे द्वे चैव पञ्च च
स्पृहापाशान्विमुच्याहं चरिष्यामि महीमिमाम्

१२.९.२५न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्
जीवितं मरणं चैव नाभिनन्दन्न च द्विषन्

१२.९.२६वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः
नाकल्याणं न कल्याणं चिन्तयन्नुभयोस्तयोः

१२.९.२७याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः
सर्वास्ताः समभित्यज्य निमेषादिव्यवस्थितः

१२.९.२८तेषु नित्यमसक्तश्च त्यक्तसर्वेन्द्रियक्रियः
सुपरित्यक्तसंकल्पः सुनिर्णिक्तात्मकल्मषः

१२.९.२९विमुक्तः सर्वसङ्गेभ्यो व्यतीतः सर्ववागुराः
न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः

१२.९.३०वीतरागश्चरन्नेवं तुष्टिं प्राप्स्यामि शाश्वतीम्
तृष्णया हि महत्पापमज्ञानादस्मि कारितः

१२.९.३१कुशलाकुशलान्येके कृत्वा कर्माणि मानवाः
कार्यकारणसंश्लिष्टं स्वजनं नाम बिभ्रति

१२.९.३२आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम्
प्रतिगृह्णाति तत्पापं कर्तुः कर्मफलं हि तत्

१२.९.३३एवं संसारचक्रेऽस्मिन्व्याविद्धे रथचक्रवत्
समेति भूतग्रामोऽयं भूतग्रामेण कार्यवान्

१२.९.३४जन्ममृत्युजराव्याधिवेदनाभिरुपद्रुतम्
असारमिममस्वन्तं संसारं त्यजतः सुखम्

१२.९.३५दिवः पतत्सु देवेषु स्थानेभ्यश्च महर्षिषु
को हि नाम भवेनार्थी भवेत्कारणतत्त्ववित्

१२.९.३६कृत्वा हि विविधं कर्म तत्तद्विविधलक्षणम्
पार्थिवैर्नृपतिः स्वल्पैः कारणैरेव बध्यते

१२.९.३७तस्मात्प्रज्ञामृतमिदं चिरान्मां प्रत्युपस्थितम्
तत्प्राप्य प्रार्थये स्थानमव्ययं शाश्वतं ध्रुवम्

१२.९.३८एतया सततं वृत्त्या चरन्नेवंप्रकारया
देहं संस्थापयिष्यामि निर्भयं मार्गमास्थितः