१२. शान्तिपर्व
१२.९५.१वामदेव उवाच

१२.९५.२अयुद्धेनैव विजयं वर्धयेद्वसुधाधिपः
जघन्यमाहुर्विजयं यो युद्धेन नराधिप

१२.९५.३न चाप्यलब्धं लिप्सेत मूले नातिदृढे सति
न हि दुर्बलमूलस्य राज्ञो लाभो विधीयते

१२.९५.४यस्य स्फीतो जनपदः संपन्नः प्रियराजकः
संतुष्टपुष्टसचिवो दृढमूलः स पार्थिवः

१२.९५.५यस्य योधाः सुसंतुष्टाः सान्त्विताः सूपधास्थिताः
अल्पेनापि स दण्डेन महीं जयति भूमिपः

१२.९५.६पौरजानपदा यस्य स्वनुरक्ताः सुपूजिताः
सधना धान्यवन्तश्च दृढमूलः स पार्थिवः

१२.९५.७प्रभावकालावधिकौ यदा मन्येत चात्मनः
तदा लिप्सेत मेधावी परभूमिं धनान्युत

१२.९५.८भोगेष्वदयमानस्य भूतेषु च दयावतः
वर्धते त्वरमाणस्य विषयो रक्षितात्मनः

१२.९५.९तक्षत्यात्मानमेवैष वनं परशुना यथा
यः सम्यग्वर्तमानेषु स्वेषु मिथ्या प्रवर्तते

१२.९५.१०न वै द्विषन्तः क्षीयन्ते राज्ञो नित्यमपि घ्नतः
क्रोधं नियन्तुं यो वेद तस्य द्वेष्टा न विद्यते

१२.९५.११यदार्यजनविद्विष्टं कर्म तन्नाचरेद्बुधः
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत्

१२.९५.१२नैनमन्येऽवजानन्ति नात्मना परितप्यते
कृत्यशेषेण यो राजा सुखान्यनुबुभूषति

१२.९५.१३इदंवृत्तं मनुष्येषु वर्तते यो महीपतिः
उभौ लोकौ विनिर्जित्य विजये संप्रतिष्ठते

१२.९५.१४भीष्म उवाच

१२.९५.१५इत्युक्तो वामदेवेन सर्वं तत्कृतवान्नृपः
तथा कुर्वंस्त्वमप्येतौ लोकौ जेता न संशयः