१२. शान्तिपर्व
१२.९६.१युधिष्ठिर उवाच

१२.९६.२अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि
कस्तस्य धर्म्यो विजय एतत्पृष्टो ब्रवीहि मे

१२.९६.३भीष्म उवाच

१२.९६.४ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः
ब्रूयादहं वो राजेति रक्षिष्यामि च वः सदा

१२.९६.५मम धर्म्यं बलिं दत्त किं वा मां प्रतिपत्स्यथ
ते चेत्तमागतं तत्र वृणुयुः कुशलं भवेत्

१२.९६.६ते चेदक्षत्रियाः सन्तो विरुध्येयुः कथंचन
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप

१२.९६.७अशक्तं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः
त्राणायाप्यसमर्थं तं मन्यमानमतीव च

१२.९६.८युधिष्ठिर उवाच

१२.९६.९अथ यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्
कथं स प्रतियोद्धव्यस्तन्मे ब्रूहि पितामह

१२.९६.१०भीष्म उवाच

१२.९६.११नासंनद्धो नाकवचो योद्धव्यः क्षत्रियो रणे
एक एकेन वाच्यश्च विसृजस्व क्षिपामि च

१२.९६.१२स चेत्संनद्ध आगच्छेत्संनद्धव्यं ततो भवेत्
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत्

१२.९६.१३स चेन्निकृत्या युध्येत निकृत्या तं प्रयोधयेत्
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत्

१२.९६.१४नाश्वेन रथिनं यायादुदियाद्रथिनं रथी
व्यसने न प्रहर्तव्यं न भीताय जिताय च

१२.९६.१५नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम्
जयार्थमेव योद्धव्यं न क्रुध्येदजिघांसतः

१२.९६.१६साधूनां तु मिथोभेदात्साधुश्चेद्व्यसनी भवेत्
सव्रणो नाभिहन्तव्यो नानपत्यः कथंचन

१२.९६.१७भग्नशस्त्रो विपन्नाश्वश्छिन्नज्यो हतवाहनः
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहान्भवेत्
निर्व्रणोऽपि च मोक्तव्य एष धर्मः सनातनः

१२.९६.१८तस्माद्धर्मेण योद्धव्यं मनुः स्वायंभुवोऽब्रवीत्
सत्सु नित्यं सतां धर्मस्तमास्थाय न नाशयेत्

१२.९६.१९यो वै जयत्यधर्मेण क्षत्रियो वर्धमानकः
आत्मानमात्मना हन्ति पापो निकृतिजीवनः

१२.९६.२०कर्म चैतदसाधूनामसाधुं साधुना जयेत्
धर्मेण निधनं श्रेयो न जयः पापकर्मणा

१२.९६.२१नाधर्मश्चरितो राजन्सद्यः फलति गौरिव
मूलान्यस्य प्रशाखाश्च दहन्समनुगच्छति

१२.९६.२२पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति
स वर्धमानः स्तेयेन पापः पापे प्रसज्जति

१२.९६.२३न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव
अश्रद्दधानभावाच्च विनाशमुपगच्छति

१२.९६.२४स बद्धो वारुणैः पाशैरमर्त्य इव मन्यते
महादृतिरिवाध्मातः स्वकृतेन विवर्धते

१२.९६.२५ततः समूलो ह्रियते नदीकूलादिव द्रुमः
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्मनि
तस्माद्धर्मेण विजयं कामं लिप्सेत भूमिपः