१२.९७.१भीष्म उवाच
१२.९७.२नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः
अधर्मविजयं लब्ध्वा कोऽनुमन्येत भूमिपः
१२.९७.३अधर्मयुक्तो विजयो ह्यध्रुवोऽस्वर्ग्य एव च
सादयत्येष राजानं महीं च भरतर्षभ
१२.९७.४विशीर्णकवचं चैव तवास्मीति च वादिनम्
कृताञ्जलिं न्यस्तशस्त्रं गृहीत्वा न विहिंसयेत्
१२.९७.५बलेनावजितो यश्च न तं युध्येत भूमिपः
संवत्सरं विप्रणयेत्तस्माज्जातः पुनर्भवेत्
१२.९७.६नार्वाक्संवत्सरात्कन्या स्प्रष्टव्या विक्रमाहृता
एवमेव धनं सर्वं यच्चान्यत्सहसाहृतम्
१२.९७.७न तु वन्ध्यं धनं तिष्ठेत्पिबेयुर्ब्राह्मणाः पयः
युञ्जीरन्वाप्यनडुहः क्षन्तव्यं वा तदा भवेत्
१२.९७.८राज्ञा राजैव योद्धव्यस्तथा धर्मो विधीयते
नान्यो राजानमभ्यसेदराजन्यः कथंचन
१२.९७.९अनीकयोः संहतयोर्यदीयाद्ब्राह्मणोऽन्तरा
शान्तिमिच्छन्नुभयतो न योद्धव्यं तदा भवेत्
मर्यादां शाश्वतीं भिन्द्याद्ब्राह्मणं योऽभिलङ्घयेत्
१२.९७.१०अथ चेल्लङ्घयेदेनां मर्यादां क्षत्रियब्रुवः
अप्रशस्यस्तदूर्ध्वं स्यादनादेयश्च संसदि
१२.९७.११या तु धर्मविलोपेन मर्यादाभेदनेन च
तां वृत्तिं नानुवर्तेत विजिगीषुर्महीपतिः
धर्मलब्धाद्धि विजयात्को लाभोऽभ्यधिको भवेत्
१२.९७.१२सहसा नाम्य भूतानि क्षिप्रमेव प्रसादयेत्
सान्त्वेन भोगदानेन स राज्ञां परमो नयः
१२.९७.१३भुज्यमाना ह्ययोगेन स्वराष्ट्रादभितापिताः
अमित्रान्पर्युपासीरन्व्यसनौघप्रतीक्षिणः
१२.९७.१४अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि
संदुष्टाः सर्वतो राजन्राजव्यसनकाङ्क्षिणः
१२.९७.१५नामित्रो विनिकर्तव्यो नातिच्छेद्यः कथंचन
जीवितं ह्यप्यतिच्छिन्नः संत्यजत्येकदा नरः
१२.९७.१६अल्पेनापि हि संयुक्तस्तुष्यत्येवापराधिकः
शुद्धं जीवितमेवापि तादृशो बहु मन्यते
१२.९७.१७यस्य स्फीतो जनपदः संपन्नः प्रियराजकः
संतुष्टभृत्यसचिवो दृढमूलः स पार्थिवः
१२.९७.१८ऋत्विक्पुरोहिताचार्या ये चान्ये श्रुतसंमताः
पूजार्हाः पूजिता यस्य स वै लोकजिदुच्यते
१२.९७.१९एतेनैव च वृत्तेन महीं प्राप सुरोत्तमः
अन्वेव चैन्द्रं विजयं व्यजिगीषन्त पार्थिवाः
१२.९७.२०भूमिवर्जं पुरं राजा जित्वा राजानमाहवे
अमृताश्चौषधीः शश्वदाजहार प्रतर्दनः
१२.९७.२१अग्निहोत्राण्यग्निशेषं हविर्भाजनमेव च
आजहार दिवोदासस्ततो विप्रकृतोऽभवत्
१२.९७.२२सराजकानि राष्ट्राणि नाभागो दक्षिणां ददौ
अन्यत्र श्रोत्रियस्वाच्च तापसस्वाच्च भारत
१२.९७.२३उच्चावचानि वृत्तानि धर्मज्ञानां युधिष्ठिर
आसन्राज्ञां पुराणानां सर्वं तन्मम रोचते
१२.९७.२४सर्वविद्यातिरेकाद्वा जयमिच्छेन्महीपतिः
न मायया न दम्भेन य इच्छेद्भूतिमात्मनः