१२. शान्तिपर्व
१२.९८.१युधिष्ठिर उवाच

१२.९८.२क्षत्रधर्मान्न पापीयान्धर्मोऽस्ति भरतर्षभ
अभियाने च युद्धे च राजा हन्ति महाजनम्

१२.९८.३अथ स्म कर्मणा येन लोकाञ्जयति पार्थिवः
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ

१२.९८.४भीष्म उवाच

१२.९८.५निग्रहेण च पापानां साधूनां प्रग्रहेण च
यज्ञैर्दानैश्च राजानो भवन्ति शुचयोऽमलाः

१२.९८.६उपरुन्धन्ति राजानो भूतानि विजयार्थिनः
त एव विजयं प्राप्य वर्धयन्ति पुनः प्रजाः

१२.९८.७अपविध्यन्ति पापानि दानयज्ञतपोबलैः
अनुग्रहेण भूतानां पुण्यमेषां प्रवर्धते

१२.९८.८यथैव क्षेत्रनिर्दाता निर्दन्वै क्षेत्रमेकदा
हिनस्ति कक्षं धान्यं च न च धान्यं विनश्यति

१२.९८.९एवं शस्त्राणि मुञ्चन्तो घ्नन्ति वध्यानथैकदा
तस्यैषा निष्कृतिः कृत्स्ना भूतानां भावनं पुनः

१२.९८.१०यो भूतानि धनज्यानाद्वधात्क्लेशाच्च रक्षति
दस्युभ्यः प्राणदानात्स धनदः सुखदो विराट्

१२.९८.११स सर्वयज्ञैरीजानो राजाथाभयदक्षिणैः
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम्

१२.९८.१२ब्राह्मणार्थे समुत्पन्ने योऽभिनिःसृत्य युध्यते
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः

१२.९८.१३अभीतो विकिरञ्शत्रून्प्रतिगृह्णञ्शरांस्तथा
न तस्मात्त्रिदशाः श्रेयो भुवि पश्यन्ति किंचन

१२.९८.१४तस्य यावन्ति शस्त्राणि त्वचं भिन्दन्ति संयुगे
तावतः सोऽश्नुते लोकान्सर्वकामदुहोऽक्षयान्

१२.९८.१५न तस्य रुधिरं गात्रादावेधेभ्यः प्रवर्तते
स ह तेनैव रक्तेन सर्वपापैः प्रमुच्यते

१२.९८.१६यानि दुःखानि सहते व्रणानामभितापने
न ततोऽस्ति तपो भूय इति धर्मविदो विदुः

१२.९८.१७पृष्ठतो भीरवः संख्ये वर्तन्तेऽधमपूरुषाः
शूराच्छरणमिच्छन्तः पर्जन्यादिव जीवनम्

१२.९८.१८यदि शूरस्तथा क्षेमे प्रतिरक्षेत्तथा भये
प्रतिरूपं जनाः कुर्युर्न च तद्वर्तते तथा

१२.९८.१९यदि ते कृतमाज्ञाय नमस्कुर्युः सदैव तम्
युक्तं न्याय्यं च कुर्युस्ते न च तद्वर्तते तथा

१२.९८.२०पुरुषाणां समानानां दृश्यते महदन्तरम्
संग्रामेऽनीकवेलायामुत्क्रुष्टेऽभिपतत्सु च

१२.९८.२१पतत्यभिमुखः शूरः परान्भीरुः पलायते
आस्थायास्वर्ग्यमध्वानं सहायान्विषमे त्यजन्

१२.९८.२२मा स्म तांस्तादृशांस्तात जनिष्ठाः पुरुषाधमान्
ये सहायान्रणे हित्वा स्वस्तिमन्तो गृहान्ययुः

१२.९८.२३अस्वस्ति तेभ्यः कुर्वन्ति देवा इन्द्रपुरोगमाः
त्यागेन यः सहायानां स्वान्प्राणांस्त्रातुमिच्छति

१२.९८.२४तं हन्युः काष्ठलोष्टैर्वा दहेयुर्वा कटाग्निना
पशुवन्मारयेयुर्वा क्षत्रिया ये स्युरीदृशाः

१२.९८.२५अधर्मः क्षत्रियस्यैष यच्छय्यामरणं भवेत्
विसृजञ्श्लेष्मपित्तानि कृपणं परिदेवयन्

१२.९८.२६अविक्षतेन देहेन प्रलयं योऽधिगच्छति
क्षत्रियो नास्य तत्कर्म प्रशंसन्ति पुराविदः

१२.९८.२७न गृहे मरणं तात क्षत्रियाणां प्रशस्यते
शौटीराणामशौटीरमधर्म्यं कृपणं च तत्

१२.९८.२८इदं दुःखमहो कष्टं पापीय इति निष्टनन्
प्रतिध्वस्तमुखः पूतिरमात्यान्बहु शोचयन्

१२.९८.२९अरोगाणां स्पृहयते मुहुर्मृत्युमपीच्छति
वीरो दृप्तोऽभिमानी च नेदृशं मृत्युमर्हति

१२.९८.३०रणेषु कदनं कृत्वा ज्ञातिभिः परिवारितः
तीक्ष्णैः शस्त्रैः सुविक्लिष्टः क्षत्रियो मृत्युमर्हति

१२.९८.३१शूरो हि सत्यमन्युभ्यामाविष्टो युध्यते भृशम्
कृत्यमानानि गात्राणि परैर्नैवावबुध्यते

१२.९८.३२स संख्ये निधनं प्राप्य प्रशस्तं लोकपूजितम्
स्वधर्मं विपुलं प्राप्य शक्रस्यैति सलोकताम्

१२.९८.३३सर्वो योधः परं त्यक्तुमाविष्टस्त्यक्तजीवितः
प्राप्नोतीन्द्रस्य सालोक्यं शूरः पृष्ठमदर्शयन्