१३.१००.१युधिष्ठिर उवाच
१३.१००.२गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव
१३.१००.३भीष्म उवाच
१३.१००.४अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप
वासुदेवस्य संवादं पृथिव्याश्चैव भारत
१३.१००.५संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान्
पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम्
१३.१००.६वासुदेव उवाच
१३.१००.७गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा
किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत्
१३.१००.८पृथिव्युवाच
१३.१००.९ऋषयः पितरो देवा मनुष्याश्चैव माधव
इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे
१३.१००.१०सदा यज्ञेन देवांश्च आतिथ्येन च मानवान्
छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन
१३.१००.११नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च
कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन
१३.१००.१२कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन्
१३.१००.१३सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्
१३.१००.१४प्रजानां पतये चैव पृथग्घोमो विधीयते
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत्
१३.१००.१५दक्षिणायां यमायेह प्रतीच्यां वरुणाय च
सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये
१३.१००.१६धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव
मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै
मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत्
१३.१००.१७तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत्
१३.१००.१८एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये
अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत्
१३.१००.१९यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि
१३.१००.२०पितॄन्संतर्पयित्वा तु बलिं कुर्याद्विधानतः
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम्
१३.१००.२१ततोऽन्नेनावशेषेण भोजयेदतिथीनपि
अर्चापूर्वं महाराज ततः प्रीणाति मानुषान्
१३.१००.२२अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते
१३.१००.२३आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्
१३.१००.२४ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्
१३.१००.२५राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्
१३.१००.२६श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते
१३.१००.२७एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः
स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते
१३.१००.२८भीष्म उवाच
१३.१००.२९इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्
तथा चकार सततं त्वमप्येवं समाचर
१३.१००.३०एवं गृहस्थधर्मं त्वं चेतयानो नराधिप
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि