१३. अनुशासनपर्व
१३.१०१.१युधिष्ठिर उवाच

१३.१०१.२आलोकदानं नामैतत्कीदृशं भरतर्षभ
कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे

१३.१०१.३भीष्म उवाच

१३.१०१.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत

१३.१०१.५तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः
वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे

१३.१०१.६कुलशीलगुणोपेतः स्वाध्याये च परं गतः
बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः

१३.१०१.७स कदाचिन्मनुं विप्रो ददर्शोपससर्प च
कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः

१३.१०१.८ततस्तौ सिद्धसंकल्पौ मेरौ काञ्चनपर्वते
रमणीये शिलापृष्ठे सहितौ संन्यषीदताम्

१३.१०१.९तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम्

१३.१०१.१०सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रभुम्
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि

१३.१०१.११सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर
किमेतत्कथमुत्पन्नं फलयोगं च शंस मे

१३.१०१.१२मनुरुवाच

१३.१०१.१३अत्राप्युदाहरन्तीममितिहासं पुरातनम्
शुक्रस्य च बलेश्चैव संवादं वै समागमे

१३.१०१.१४बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः

१३.१०१.१५तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः

१३.१०१.१६कथेयमभवत्तत्र या त्वया परिकीर्तिता
सुमनोधूपदीपानां संप्रदाने फलं प्रति

१३.१०१.१७ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम्
सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति

१३.१०१.१८शुक्र उवाच

१३.१०१.१९तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम्
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च

१३.१०१.२०सोमस्यात्मा च बहुधा संभूतः पृथिवीतले
अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः

१३.१०१.२१अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः

१३.१०१.२२अमृतं मङ्गलं विद्धि महद्विषममङ्गलम्
ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसंभवम्

१३.१०१.२३मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः

१३.१०१.२४देवताभ्यः सुमनसो यो ददाति नरः शुचिः
तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः

१३.१०१.२५यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप

१३.१०१.२६ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक्
ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च

१३.१०१.२७यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे
आसुराणि च माल्यानि दैवतेभ्यो हितानि च

१३.१०१.२८राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः
पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः

१३.१०१.२९वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः
अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः

१३.१०१.३०द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः
इष्टगन्धानि देवानां पुष्पाणीति विभावयेत्

१३.१०१.३१अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो

१३.१०१.३२जलजानि च माल्यानि पद्मादीनि च यानि च
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः

१३.१०१.३३ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः

१३.१०१.३४तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत्

१३.१०१.३५मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः
चारुरूपाः सुमनसो मानुषाणां स्मृता विभो

१३.१०१.३६न तु श्मशानसंभूता न देवायतनोद्भवाः
संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च

१३.१०१.३७गिरिसानुरुहाः सौम्या देवानामुपपादयेत्
प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति

१३.१०१.३८गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः

१३.१०१.३९सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत
संकल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः

१३.१०१.४०देवाः प्रीणन्ति सततं मानिता मानयन्ति च
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान्

१३.१०१.४१अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम्
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे

१३.१०१.४२निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः
इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु

१३.१०१.४३निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते
गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः

१३.१०१.४४अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम्
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः

१३.१०१.४५अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते

१३.१०१.४६देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः
येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः

१३.१०१.४७य एवोक्ताः सुमनसां प्रदाने गुणहेतवः
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः

१३.१०१.४८दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम्
यथा येन यदा चैव प्रदेया यादृशाश्च ते

१३.१०१.४९ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम्

१३.१०१.५०अन्धं तमस्तमिस्रं च दक्षिणायनमेव च
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते

१३.१०१.५१यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम्
तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः

१३.१०१.५२देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः
तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते

१३.१०१.५३आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः
तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत्

१३.१०१.५४दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः
दीपप्रदः स्वर्गलोके दीपमाली विराजते

१३.१०१.५५हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता

१३.१०१.५६गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः

१३.१०१.५७कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति
ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा

१३.१०१.५८बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान्
देवयक्षोरगनृणां भूतानामथ रक्षसाम्

१३.१०१.५९येषां नाग्रभुजो विप्रा देवतातिथिबालकाः
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान्

१३.१०१.६०तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम्
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः

१३.१०१.६१गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः

१३.१०१.६२इतो दत्तेन जीवन्ति देवताः पितरस्तथा
ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः

१३.१०१.६३बलयः सह पुष्पैस्तु देवानामुपहारयेत्
दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः

१३.१०१.६४कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम्
सुरासवपुरस्कारा लाजोल्लेपनभूषिताः

१३.१०१.६५नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः
तिलान्गुडसुसंपन्नान्भूतानामुपहारयेत्

१३.१०१.६६अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम्

१३.१०१.६७ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना

१३.१०१.६८इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च

१३.१०१.६९नारदोऽपि मयि प्राह गुणानेतान्महाद्युते
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक