१३. अनुशासनपर्व
१३.९९.१युधिष्ठिर उवाच

१३.९९.२आरामाणां तडागानां यत्फलं कुरुनन्दन
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ

१३.९९.३भीष्म उवाच

१३.९९.४सुप्रदर्शा वनवती चित्रधातुविभूषिता
उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते

१३.९९.५तस्याः क्षेत्रविशेषं च तडागानां निवेशनम्
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः

१३.९९.६तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान्

१३.९९.७अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम्
कीर्तिसंजननं श्रेष्ठं तडागानां निवेशनम्

१३.९९.८धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम्

१३.९९.९चतुर्विधानां भूतानां तडागमुपलक्षयेत्
तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम्

१३.९९.१०देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः
स्थावराणि च भूतानि संश्रयन्ति जलाशयम्

१३.९९.११तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः
या च तत्र फलावाप्तिरृषिभिः समुदाहृता

१३.९९.१२वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः

१३.९९.१३शरत्काले तु सलिलं तडागे यस्य तिष्ठति
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम्

१३.९९.१४हेमन्तकाले सलिलं तडागे यस्य तिष्ठति
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम्

१३.९९.१५यस्य वै शैशिरे काले तडागे सलिलं भवेत्
अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः

१३.९९.१६तडागं सुकृतं यस्य वसन्ते तु महाश्रयम्
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते

१३.९९.१७निदाघकाले पानीयं तडागे यस्य तिष्ठति
वाजपेयसमं तस्य फलं वै मुनयो विदुः

१३.९९.१८स कुलं तारयेत्सर्वं यस्य खाते जलाशये
गावः पिबन्ति पानीयं साधवश्च नराः सदा

१३.९९.१९तडागे यस्य गावस्तु पिबन्ति तृषिता जलम्
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत्

१३.९९.२०यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च
तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते

१३.९९.२१दुर्लभं सलिलं तात विशेषेण परत्र वै
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती

१३.९९.२२तिलान्ददत पानीयं दीपान्ददत जाग्रत
ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम्

१३.९९.२३सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि

१३.९९.२४एवमेतत्तडागेषु कीर्तितं फलमुत्तमम्
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे

१३.९९.२५स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः

१३.९९.२६एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम्

१३.९९.२७लभते नाम लोके च पितृभिश्च महीयते
देवलोकगतस्यापि नाम तस्य न नश्यति

१३.९९.२८अतीतानागते चोभे पितृवंशं च भारत
तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत्

१३.९९.२९तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान्

१३.९९.३०पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन्
छायया चातिथींस्तात पूजयन्ति महीरुहाः

१३.९९.३१किंनरोरगरक्षांसि देवगन्धर्वमानवाः
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान्

१३.९९.३२पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च

१३.९९.३३तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः

१३.९९.३४तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः

१३.९९.३५तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत्
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत्