१३.१०२.१युधिष्ठिर उवाच
१३.१०२.२श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि
१३.१०२.३धूपप्रदानस्य फलं प्रदीपस्य तथैव च
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः
१३.१०२.४भीष्म उवाच
१३.१०२.५अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा
१३.१०२.६नहुषो हि महाराज राजर्षिः सुमहातपाः
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा
१३.१०२.७तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन्
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः
१३.१०२.८मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः
१३.१०२.९अग्निकार्याणि समिधः कुशाः सुमनसस्तथा
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च
१३.१०२.१०सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः
१३.१०२.११दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः
सर्वाण्येव यथान्यायं यथापूर्वमरिंदम
१३.१०२.१२अथेन्द्रस्य भविष्यत्वादहंकारस्तमाविशत्
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते
१३.१०२.१३स ऋषीन्वाहयामास वरदानमदान्वितः
परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान्
१३.१०२.१४तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान्
अहंकाराभिभूतस्य सुमहानत्यवर्तत
१३.१०२.१५अथ पर्यायश ऋषीन्वाहनायोपचक्रमे
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत
१३.१०२.१६अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत्
१३.१०२.१७एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः
नहुषस्य किमर्थं वै मर्षयाम महामुने
१३.१०२.१८अगस्त्य उवाच
१३.१०२.१९कथमेष मया शक्यः शप्तुं यस्य महामुने
वरदेन वरो दत्तो भवतो विदितश्च सः
१३.१०२.२०यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति
इत्यनेन वरो देवाद्याचितो गच्छता दिवम्
१३.१०२.२१एवं न दग्धः स मया भवता च न संशयः
अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः
१३.१०२.२२अमृतं चैव पानाय दत्तमस्मै पुरा विभो
महात्मने तदर्थं च नास्माभिर्विनिपात्यते
१३.१०२.२३प्रायच्छत वरं देवः प्रजानां दुःखकारकम्
द्विजेष्वधर्मयुक्तानि स करोति नराधमः
१३.१०२.२४अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर
भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम्
१३.१०२.२५भृगुरुवाच
१३.१०२.२६पितामहनियोगेन भवन्तमहमागतः
प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते
१३.१०२.२७अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट्
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा
१३.१०२.२८अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम्
संचाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम्
१३.१०२.२९अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः
१३.१०२.३०व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम्
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम्
१३.१०२.३१तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्
धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने
१३.१०२.३२नहुषं पापकर्माणमैश्वर्यबलमोहितम्
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने
१३.१०२.३३एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः
अगस्त्यः परमप्रीतो बभूव विगतज्वरः