१३. अनुशासनपर्व
१३.१०३.१युधिष्ठिर उवाच

१३.१०३.२कथं स वै विपन्नश्च कथं वै पातितो भुवि
कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति

१३.१०३.३भीष्म उवाच

१३.१०३.४एवं तयोः संवदतोः क्रियास्तस्य महात्मनः
सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः

१३.१०३.५तथैव दीपदानानि सर्वोपकरणानि च
बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः
सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः

१३.१०३.६देवलोके नृलोके च सदाचारा बुधैः स्मृताः
ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च

१३.१०३.७यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते
बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः

१३.१०३.८यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा
तथा शतगुणा प्रीतिर्देवतानां स्म जायते

१३.१०३.९एवं धूपप्रदानं च दीपदानं च साधवः
प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम्

१३.१०३.१०स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता
नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः

१३.१०३.११इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम्

१३.१०३.१२कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते
सर्वमेतदवज्ञाय न चकारैतदीदृशम्

१३.१०३.१३ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः
धूपदीपोदकविधिं न यथावच्चकार ह
ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत

१३.१०३.१४अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह
द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः

१३.१०३.१५ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत्
निमीलयस्व नयने जटा यावद्विशामि ते

१३.१०३.१६स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः
भृगुः स सुमहातेजाः पातनाय नृपस्य ह

१३.१०३.१७ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते

१३.१०३.१८योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप

१३.१०३.१९इत्युक्तो नहुषस्तेन योजयामास तं मुनिम्
भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम्

१३.१०३.२०न चापि दर्शनं तस्य चकार स भृगुस्तदा
वरदानप्रभावज्ञो नहुषस्य महात्मनः

१३.१०३.२१न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै
तं तु राजा प्रतोदेन चोदयामास भारत

१३.१०३.२२न चुकोप स धर्मात्मा ततः पादेन देवराट्
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः

१३.१०३.२३तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम्

१३.१०३.२४भृगुरुवाच

१३.१०३.२५यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम्
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते

१३.१०३.२६इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ

१३.१०३.२७भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते
न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा

१३.१०३.२८स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा
पतितोऽपि महाराज भूतले स्मृतिमानभूत्
प्रसादयामास भृगुं शापान्तो मे भवेदिति

१३.१०३.२९ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम्
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः

१३.१०३.३०भृगुरुवाच

१३.१०३.३१राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः
स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत

१३.१०३.३२अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः

१३.१०३.३३नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः
जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप

१३.१०३.३४तदा तु पातयित्वा तं नहुषं भूतले भृगुः
जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत्

१३.१०३.३५ततः शक्रं समानाय्य देवानाह पितामहः
वरदानान्मम सुरा नहुषो राज्यमाप्तवान्
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः

१३.१०३.३६न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित्
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम्

१३.१०३.३७एवं संभाषमाणं तु देवाः पार्थ पितामहम्
एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम्

१३.१०३.३८सोऽभिषिक्तो भगवता देवराज्येन वासवः
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत

१३.१०३.३९एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात्
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः

१३.१०३.४०तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत

१३.१०३.४१यावदक्षिनिमेषाणि ज्वलते तावतीः समाः
रूपवान्धनवांश्चापि नरो भवति दीपदः