१३.१०६.१युधिष्ठिर उवाच
१३.१०६.२दानं बहुविधाकारं शान्तिः सत्यमहिंसता
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत्
१३.१०६.३पितामहस्य विदितं किमन्यत्र तपोबलात्
तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि
१३.१०६.४भीष्म उवाच
१३.१०६.५तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर
मतं मम तु कौन्तेय तपो नानशनात्परम्
१३.१०६.६अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः
१३.१०६.७अतीत्य सुरलोकं च गवां लोकं च भारत
ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः
१३.१०६.८तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम्
कथं भगीरथागास्त्वमिमं देशं दुरासदम्
१३.१०६.९न हि देवा न गन्धर्वा न मनुष्या भगीरथ
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः
१३.१०६.१०भगीरथ उवाच
१३.१०६.११निःशङ्कमन्नमददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम्
ब्राह्मं व्रतं नित्यमास्थाय विद्धि; न त्वेवाहं तस्य फलादिहागाम्
१३.१०६.१२दशैकरात्रान्दश पञ्चरात्रा;नेकादशैकादशकान्क्रतूंश्च
ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम्
१३.१०६.१३यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम्
अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम्
१३.१०६.१४दशायुतानि चाश्वानामयुतानि च विंशतिम्
पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः
१३.१०६.१५सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम्
षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैराभरणैर्न तेन
१३.१०६.१६दशार्बुदान्यददं गोसवेज्या;स्वेकैकशो दश गा लोकनाथ
समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन
१३.१०६.१७अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम्
गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च
१३.१०६.१८दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह
प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः
१३.१०६.१९वाजिनां बाह्लिजातानामयुतान्यददं दश
कर्काणां हेममालानां न च तेनाहमागतः
१३.१०६.२०कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम्
एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः
१३.१०६.२१वाजिनां श्यामकर्णानां हरितानां पितामह
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च
१३.१०६.२२ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान्
पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च
१३.१०६.२३अलंकृतानां देवेश दिव्यैः कनकभूषणैः
रथानां काञ्चनाङ्गानां सहस्राण्यददं दश
सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः
१३.१०६.२४दक्षिणावयवाः केचिद्वेदैर्ये संप्रकीर्तिताः
वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम्
१३.१०६.२५शक्रतुल्यप्रभावानामिज्यया विक्रमेण च
सहस्रं निष्ककण्ठानामददं दक्षिणामहम्
१३.१०६.२६विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः
१३.१०६.२७स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते
१३.१०६.२८वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते
वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम्
तपस्वी नियताहारः शममास्थाय वाग्यतः
१३.१०६.२९दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम्
मूर्ध्ना धारां महादेवः शिरसा यामधारयत्
न तेनाप्यहमागच्छं फलेनेह पितामह
१३.१०६.३०शम्याक्षेपैरयजं यच्च देवा;न्सद्यस्कानामयुतैश्चापि यत्तत्
त्रयोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन
१३.१०६.३१अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं ब्राह्मणेभ्यः
एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः
१३.१०६.३२हिरण्यरत्ननिचितानददं रत्नपर्वतान्
धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः
१३.१०६.३३शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः
इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च
१३.१०६.३४एकादशाहैरयजं सदक्षिणै;र्द्विर्द्वादशाहैरश्वमेधैश्च देव
आर्कायणैः षोडशभिश्च ब्रह्मं;स्तेषां फलेनेह न चागतोऽस्मि
१३.१०६.३५निष्कैककण्ठमददं योजनायतं; तद्विस्तीर्णं काञ्चनपादपानाम्
वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन
१३.१०६.३६तुरायणं हि व्रतमप्रधृष्य;मक्रोधनोऽकरवं त्रिंशतोऽब्दान्
शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं ब्राह्मणेभ्यः
१३.१०६.३७पयस्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम्
१३.१०६.३८त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः
१३.१०६.३९दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः
न चैव तेषां देवेश फलेनाहमिहागतः
१३.१०६.४०सरय्वां बाहुदायां च गङ्गायामथ नैमिषे
गवां शतानामयुतमददं न च तेन वै
१३.१०६.४१इन्द्रेण गुह्यं निहितं वै गुहायां; यद्भार्गवस्तपसेहाभ्यविन्दत्
जाज्वल्यमानमुशनस्तेजसेह; तत्साधयामास महं वरेण्यम्
१३.१०६.४२ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते
सहस्रमृषयश्चासन्ये वै तत्र समागताः
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो
१३.१०६.४३प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो
इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा
१३.१०६.४४कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत्
तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद
१३.१०६.४५भीष्म उवाच
१३.१०६.४६इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम्
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा