१३. अनुशासनपर्व
१३.११०.१युधिष्ठिर उवाच

१३.११०.२पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना
गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः

१३.११०.३न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह
बहूपकरणा यज्ञा नानासंभारविस्तराः

१३.११०.४पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः

१३.११०.५यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत्
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह

१३.११०.६भीष्म उवाच

१३.११०.७इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम्
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर

१३.११०.८यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत्
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्

१३.११०.९षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः
तप्तकाञ्चनवर्णं च विमानं लभते नरः

१३.११०.१०देवस्त्रीणामधीवासे नृत्यगीतनिनादिते
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे

१३.११०.११त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम्
धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत्

१३.११०.१२द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम्
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्
यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत्

१३.११०.१३सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम्

१३.११०.१४पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे
द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह

१३.११०.१५तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम्
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्

१३.११०.१६अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्
मयूरहंससंयुक्तं विमानं लभते नरः

१३.११०.१७सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः

१३.११०.१८दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

१३.११०.१९वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्
इन्द्रकन्याभिरूढं च विमानं लभते नरः

१३.११०.२०सागरस्य च पर्यन्ते वासवं लोकमावसेत्
देवराजस्य च क्रीडां नित्यकालमवेक्षते

१३.११०.२१दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम्
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्

१३.११०.२२अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः
अनसूयुरपापस्थो द्वादशाहफलं लभेत्

१३.११०.२३जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम्
सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम्

१३.११०.२४आवर्तनानि चत्वारि तथा पद्मानि द्वादश
शराग्निपरिमाणं च तत्रासौ वसते सुखम्

१३.११०.२५दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

१३.११०.२६सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः
गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्

१३.११०.२७अग्निज्वालासमाभासं हंसबर्हिणसेवितम्
शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम्

१३.११०.२८तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते
नूपुराणां निनादेन मेखलानां च निस्वनैः

१३.११०.२९कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च
पद्मान्यष्टादश तथा पताके द्वे तथैव च

१३.११०.३०अयुतानि च पञ्चाशदृक्षचर्मशतस्य च
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते

१३.११०.३१दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम्
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

१३.११०.३२सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन्
सुमनोवर्णकं चैव मधुमांसं च वर्जयेत्

१३.११०.३३पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति
तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते

१३.११०.३४फलं बहुसुवर्णस्य यज्ञस्य लभते नरः
संख्यामतिगुणां चापि तेषु लोकेषु मोदते

१३.११०.३५यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः
देवकार्यपरो नित्यं जुह्वानो जातवेदसम्

१३.११०.३६पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्
पद्मवर्णनिभं चैव विमानमधिरोहति

१३.११०.३७कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः
वयोरूपविलासिन्यो लभते नात्र संशयः

१३.११०.३८यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

१३.११०.३९अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः
पुण्डरीकप्रकाशं च विमानं लभते नरः

१३.११०.४०दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च
नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम्

१३.११०.४१अष्टादशसहस्राणि वर्षाणां कल्पमेव च
कोटीशतसहस्रं च तेषु लोकेषु मोदते

१३.११०.४२यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

१३.११०.४३ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्

१३.११०.४४रूपवत्यश्च तं कन्या रमयन्ति सदा नरम्
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा

१३.११०.४५विमानं मण्डलावर्तमावर्तगहनावृतम्
सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम्

१३.११०.४६विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम्
आरोहति महद्यानं हंससारसवाहनम्

१३.११०.४७एकादशे तु दिवसे यः प्राप्ते प्राशते हविः
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्

१३.११०.४८परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा
अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा

१३.११०.४९अभिगच्छेन्महादेवं विमानस्थं महाबलम्
स्वयंभुवं च पश्येत विमानं समुपस्थितम्

१३.११०.५०कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम्
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम्

१३.११०.५१वर्षाण्यपरिमेयानि युगान्तमपि चावसेत्
कोटीशतसहस्रं च दश कोटिशतानि च

१३.११०.५२रुद्रं नित्यं प्रणमते देवदानवसंमतम्
स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत्

१३.११०.५३दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः
सदा द्वादशमासान्वै सर्वमेधफलं लभेत्

१३.११०.५४आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम्

१३.११०.५५हंसमालापरिक्षिप्तं नागवीथीसमाकुलम्
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम्

१३.११०.५६अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम्
नित्यमावसते राजन्नरनारीसमावृतम्
ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित्

१३.११०.५७त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः
सदा द्वादश मासान्वै देवसत्रफलं लभेत्

१३.११०.५८रक्तपद्मोदयं नाम विमानं साधयेन्नरः
जातरूपप्रयुक्तं च रत्नसंचयभूषितम्

१३.११०.५९देवकन्याभिराकीर्णं दिव्याभरणभूषितम्
पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम्

१३.११०.६०तत्र शङ्कुपताकं च युगान्तं कल्पमेव च
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत्

१३.११०.६१गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः
सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते

१३.११०.६२चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः
सदा द्वादश मासान्वै महामेधफलं लभेत्

१३.११०.६३अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः
मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम्

१३.११०.६४कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः
काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते

१३.११०.६५देवकन्यानिवासे च तस्मिन्वसति मानवः
जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः

१३.११०.६६यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम्
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम्

१३.११०.६७यानमारोहते नित्यं हंसबर्हिणसेवितम्
मणिमण्डलकैश्चित्रं जातरूपसमावृतम्

१३.११०.६८दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम्
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम्
वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः

१३.११०.६९दिव्यं दिव्यगुणोपेतं विमानमधिरोहति
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम्
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः

१३.११०.७०षोडशे दिवसे यस्तु संप्राप्ते प्राशते हविः
सदा द्वादश मासान्वै सोमयज्ञफलं लभेत्

१३.११०.७१सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा
सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत्

१३.११०.७२सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते

१३.११०.७३फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम्
आवर्तनानि चत्वारि सागरे यात्यसौ नरः

१३.११०.७४दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्

१३.११०.७५स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति
मारुतौशनसे चैव ब्रह्मलोकं च गच्छति

१३.११०.७६तत्र दैवतकन्याभिरासनेनोपचर्यते
भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते

१३.११०.७७तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम्
द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः

१३.११०.७८चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो
तावच्चरत्यसौ वीरः सुधामृतरसाशनः

१३.११०.७९अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम्
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति

१३.११०.८०रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः

१३.११०.८१व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम्
विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति

१३.११०.८२तत्र कल्पसहस्रं स कान्ताभिः सह मोदते
सुधारसं च भुञ्जीत अमृतोपममुत्तमम्

१३.११०.८३एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम्
सदा द्वादश मासान्वै सप्त लोकान्स पश्यति

१३.११०.८४उत्तमं लभते स्थानमप्सरोगणसेवितम्
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम्

१३.११०.८५तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः
दिव्याम्बरधरः श्रीमानयुतानां शतं समाः

१३.११०.८६पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम्
सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः

१३.११०.८७अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः
स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते

१३.११०.८८गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः
विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते

१३.११०.८९एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम्
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्

१३.११०.९०लोकमौशनसं दिव्यं शक्रलोकं च गच्छति
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा

१३.११०.९१अनभिज्ञश्च दुःखानां विमानवरमास्थितः
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः

१३.११०.९२द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम्
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्

१३.११०.९३धृतिमानहिंसानिरतः सत्यवागनसूयकः
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः

१३.११०.९४कामचारी सुधाहारो विमानवरमास्थितः
रमते देवकन्याभिर्दिव्याभरणभूषितः

१३.११०.९५त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम्
सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः

१३.११०.९६वायोरुशनसश्चैव रुद्रलोकं च गच्छति
कामचारी कामगमः पूज्यमानोऽप्सरोगणैः

१३.११०.९७अनेकगुणपर्यन्तं विमानवरमास्थितः
रमते देवकन्याभिर्दिव्याभरणभूषितः

१३.११०.९८चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम्
सदा द्वादश मासान्वै जुह्वानो जातवेदसम्

१३.११०.९९आदित्यानामधीवासे मोदमानो वसेच्चिरम्
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः

१३.११०.१००विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे
रमते देवकन्यानां सहस्रैरयुतैस्तथा

१३.११०.१०१पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम्
सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत्

१३.११०.१०२सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते

१३.११०.१०३देवकन्यासमारूढै राजतैर्विमलैः शुभैः
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम्

१३.११०.१०४तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते
सुधारसं चोपजीवन्नमृतोपममुत्तमम्

१३.११०.१०५षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम्
सदा द्वादश मासांस्तु नियतो नियताशनः

१३.११०.१०६जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम्
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः

१३.११०.१०७सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते
विमाने स्फाटिके दिव्ये सर्वरत्नैरलंकृते

१३.११०.१०८गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते
द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा

१३.११०.१०९सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम्
सदा द्वादश मासांस्तु जुह्वानो जातवेदसम्

१३.११०.११०फलं प्राप्नोति विपुलं देवलोके च पूज्यते
अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते

१३.११०.१११देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम्
अध्यावसति दिव्यात्मा विमानवरमास्थितः

१३.११०.११२स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम्

१३.११०.११३योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम्
सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः

१३.११०.११४फलं देवर्षिचरितं विपुलं समुपाश्नुते
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः

१३.११०.११५सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः
पीनस्तनोरुजघना दिव्याभरणभूषिताः

१३.११०.११६रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे
सर्वकामगमे दिव्ये कल्पायुतशतं समाः

१३.११०.११७एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम्
सदा द्वादश मासान्वै सत्यव्रतपरायणः

१३.११०.११८तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः
विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति

१३.११०.११९जातरूपमयं युक्तं सर्वरत्नविभूषितम्
अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम्

१३.११०.१२०तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः

१३.११०.१२१भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः

१३.११०.१२२वसूनां मरुतां चैव साध्यानामश्विनोस्तथा
रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति

१३.११०.१२३यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः
सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात्

१३.११०.१२४सुधारसकृताहारः श्रीमान्सर्वमनोहरः
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव

१३.११०.१२५दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
सुखेष्वभिरतो योगी दुःखानामविजानकः

१३.११०.१२६स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते

१३.११०.१२७नानाविधसुरूपाभिर्नानारागाभिरेव च
नानामधुरभाषाभिर्नानारतिभिरेव च

१३.११०.१२८विमाने नगराकारे सूर्यवत्सूर्यसंनिभे
पृष्ठतः सोमसंकाशे उदक्चैवाभ्रसंनिभे

१३.११०.१२९दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले
ऊर्ध्वं चित्राभिसंकाशे नैको वसति पूजितः

१३.११०.१३०यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः

१३.११०.१३१विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात्
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः

१३.११०.१३२मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम्
महर्षित्वमथासाद्य सशरीरगतिर्भवेत्

१३.११०.१३३मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा
जुह्वन्नग्नींश्च नियतः संध्योपासनसेविता

१३.११०.१३४बहुभिर्नियमैरेवं मासानश्नाति यो नरः
अभ्रावकाशशीलश्च तस्य वासो निरुच्यते

१३.११०.१३५दिवं गत्वा शरीरेण स्वेन राजन्यथामरः
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि

१३.११०.१३६एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः

१३.११०.१३७दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा
उपवासमिमं कृत्वा गच्छेच्च परमां गतिम्
देवद्विजातिपूजायां रतो भरतसत्तम

१३.११०.१३८उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु

१३.११०.१३९दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत
अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः