१३. अनुशासनपर्व
१३.११९.१व्यास उवाच

१३.११९.२शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे

१३.११९.३अहं हि दर्शनादेव तारयामि तपोबलात्
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते

१३.११९.४जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम्
अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे

१३.११९.५कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये
धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः

१३.११९.६वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः
किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः

१३.११९.७जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि

१३.११९.८गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे
तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि

१३.११९.९स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत
तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु

१३.११९.१०श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम्
श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु

१३.११९.११स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः

१३.११९.१२कीट उवाच

१३.११९.१३इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम्

१३.११९.१४वहन्ति मामतिबलाः कुञ्जरा हेममालिनः
स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः

१३.११९.१५उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्
सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम्

१३.११९.१६गृहेषु सुनिवासेषु सुखेषु शयनेषु च
परार्ध्येषु महाभाग स्वपामीह सुपूजितः

१३.११९.१७सर्वेष्वपररात्रेषु सूतमागधबन्दिनः
स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः

१३.११९.१८प्रसादात्सत्यसंधस्य भवतोऽमिततेजसः
यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम्

१३.११९.१९नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम्
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया

१३.११९.२०व्यास उवाच

१३.११९.२१अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया
अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता

१३.११९.२२न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा
शूद्रेणार्थप्रधानेन नृशंसेनाततायिना

१३.११९.२३मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा
तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा

१३.११९.२४इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि
गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे

१३.११९.२५राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान्
अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी

१३.११९.२६तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः