१३. अनुशासनपर्व
१३.१२०.१भीष्म उवाच

१३.१२०.२क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान्
त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः

१३.१२०.३तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा

१३.१२०.४व्यास उवाच

१३.१२०.५क्षात्रं चैव व्रतं कीट भूतानां परिपालनम्
क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि

१३.१२०.६पाहि सर्वाः प्रजाः सम्यक्शुभाशुभविदात्मवान्
शुभैः संविभजन्कामैरशुभानां च पावनैः

१३.१२०.७आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि

१३.१२०.८भीष्म उवाच

१३.१२०.९सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च

१३.१२०.१०अचिरेणैव कालेन कीटः पार्थिवसत्तम
प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः

१३.१२०.११ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा

१३.१२०.१२व्यास उवाच

१३.१२०.१३भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथंचन
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु
उपपद्यति धर्मज्ञ यथाधर्मं यथागमम्

१३.१२०.१४तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथंचन
धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम्

१३.१२०.१५कीट उवाच

१३.१२०.१६सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम्
धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे

१३.१२०.१७भीष्म उवाच

१३.१२०.१८भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम्
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम्
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः

१३.१२०.१९अवाप च परं कीटः पार्थ ब्रह्म सनातनम्
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा

१३.१२०.२०तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुंगवाः
संप्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक