१३. अनुशासनपर्व
१३.१२१.१युधिष्ठिर उवाच

१३.१२१.२विद्या तपश्च दानं च किमेतेषां विशिष्यते
पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह

१३.१२१.३भीष्म उवाच

१३.१२१.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च

१३.१२१.५कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले

१३.१२१.६तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम्
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम्

१३.१२१.७तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम्
प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः

१३.१२१.८तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्
कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते
तपस्विनो धृतिमतः प्रमोदः समुपागतः

१३.१२१.९एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च
आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च

१३.१२१.१०पृथगाचरतस्तात पृथगात्मनि चात्मनोः
अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया

१३.१२१.११व्यास उवाच

१३.१२१.१२अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत्

१३.१२१.१३त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत्
इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम्

१३.१२१.१४अल्पोऽपि तादृशो दायो भवत्युत महाफलः
तृषिताय च यद्दत्तं हृदयेनानसूयता

१३.१२१.१५तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम
अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो
अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च

१३.१२१.१६पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम्
पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः

१३.१२१.१७अधिकं मार्जनात्तात तथैवाप्यनुलेपनात्
शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत्

१३.१२१.१८यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि
तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः

१३.१२१.१९दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः

१३.१२१.२०यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः
सर्वत्यागो यथा चेह तथा दानमनुत्तमम्

१३.१२१.२१त्वं हि तात सुखादेव सुखमेष्यसि शोभनम्
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः

१३.१२१.२२तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम्
श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम्

१३.१२१.२३सुखादेव परं दुःखं दुःखादन्यत्परं सुखम्
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः

१३.१२१.२४त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम्

१३.१२१.२५न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम्
तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम्

१३.१२१.२६रमस्वैधस्व मोदस्व देहि चैव यजस्व च
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः