१३.१२६.१युधिष्ठिर उवाच
१३.१२६.२पितामह महाप्राज्ञ सर्वशास्त्रविशारद
आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले
१३.१२६.३त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम्
आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम
१३.१२६.४अयं च कालः संप्राप्तो दुर्लभज्ञातिबान्धवः
शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ
१३.१२६.५यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव
१३.१२६.६अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः
भवन्तं बहुमानेन प्रश्रयेण च सेवते
१३.१२६.७अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः
भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि
१३.१२६.८वैशंपायन उवाच
१३.१२६.९तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः
भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत्
१३.१२६.१०हन्त ते कथयिष्यामि कथामतिमनोरमाम्
अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः
१३.१२६.११यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु
रुद्राण्याः संशयो यश्च दंपत्योस्तं च मे शृणु
१३.१२६.१२व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम्
दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ
१३.१२६.१३कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः
देवलः काश्यपश्चैव हस्तिकाश्यप एव च
१३.१२६.१४अपरे ऋषयः सन्तो दीक्षादमसमन्विताः
शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः
१३.१२६.१५तेषामतिथिसत्कारमर्चनीयं कुलोचितम्
देवकीतनयः प्रीतो देवकल्पमकल्पयत्
१३.१२६.१६हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च
उपोपविविशुः प्रीता विष्टरेषु महर्षयः
१३.१२६.१७कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः
राजर्षीणां सुराणां च ये वसन्ति तपोधनाः
१३.१२६.१८ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम्
वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः
१३.१२६.१९सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम्
सपक्षिमृगसंघातं सश्वापदसरीसृपम्
१३.१२६.२०मृगैश्च विविधाकारैर्हाहाभूतमचेतनम्
शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम्
१३.१२६.२१स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः
विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत्
१३.१२६.२२ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः
सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत्
१३.१२६.२३तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः
सपक्षिगणसंघुष्टः सश्वापदसरीसृपः
१३.१२६.२४तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा
विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः
१३.१२६.२५ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान्
प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः
१३.१२६.२६किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः
निर्ममस्यागमवतो विस्मयः समुपागतः
१३.१२६.२७एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः
ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः
१३.१२६.२८ऋषय ऊचुः
१३.१२६.२९भवान्विसृजते लोकान्भवान्संहरते पुनः
भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति
१३.१२६.३०पृथिव्यां यानि भूतानि स्थावराणि चराणि च
तेषां पिता त्वं माता च प्रभुः प्रभव एव च
१३.१२६.३१एतन्नो विस्मयकरं प्रशंस मधुसूदन
त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम्
१३.१२६.३२ततो विगतसंत्रासा वयमप्यरिकर्शन
यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे
१३.१२६.३३वासुदेव उवाच
१३.१२६.३४एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम्
कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः
१३.१२६.३५ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः
भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः
१३.१२६.३६व्रतचर्यापरीतस्य तपस्विव्रतसेवया
मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ
१३.१२६.३७व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम्
पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः
१३.१२६.३८ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः
गतश्च वरदं द्रष्टुं सर्वलोकपितामहम्
१३.१२६.३९तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः
तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः
१३.१२६.४०सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम्
शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः
१३.१२६.४१एतदस्य रहस्यं वः पद्मनाभस्य धीमतः
मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः
१३.१२६.४२सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः
तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः
१३.१२६.४३यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि
आश्चर्यं परमं किंचित्तद्भवन्तो ब्रुवन्तु मे
१३.१२६.४४तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा
भवद्भिः कथितस्येह तपोवननिवासिभिः
१३.१२६.४५यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम्
दिवि वा भुवि वा किंचित्पश्याम्यमलदर्शनाः
१३.१२६.४६प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते
न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे
१३.१२६.४७श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः
चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम्
१३.१२६.४८तदहं सज्जनमुखान्निःसृतं तत्समागमे
कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम्
१३.१२६.४९ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ
नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम्
१३.१२६.५०वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे
वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम्
१३.१२६.५१ततो मुनिगणाः सर्वे नारदं देवदर्शनम्
तदा नियोजयामासुर्वचने वाक्यकोविदम्
१३.१२६.५२यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो
अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः
१३.१२६.५३तद्भवानृषिसंघस्य हितार्थं सर्वचोदितः
यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति
१३.१२६.५४एवमुक्तः स मुनिभिर्नारदो भगवानृषिः
कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम्