१३. अनुशासनपर्व
१३.१२७.१भीष्म उवाच

१३.१२७.२ततो नारायणसुहृन्नारदो भगवानृषिः
शंकरस्योमया सार्धं संवादं प्रत्यभाषत

१३.१२७.३तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः
पुण्ये गिरौ हिमवति सिद्धचारणसेविते

१३.१२७.४नानौषधियुते रम्ये नानापुष्पसमाकुले
अप्सरोगणसंकीर्णे भूतसंघनिषेविते

१३.१२७.५तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः
नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः

१३.१२७.६सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः
क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा

१३.१२७.७उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा
नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः
किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा

१३.१२७.८दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम्
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम्
तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम्

१३.१२७.९मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम्
नृत्यद्भिर्भूतसंघैश्च बर्हिणैश्च समन्ततः

१३.१२७.१०प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम्
दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम्

१३.१२७.११स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत

१३.१२७.१२स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः
षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः

१३.१२७.१३तं महोत्सवसंकाशं भीमरूपधरं पुनः
दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन

१३.१२७.१४मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः
मरुतो वसवः साध्या विश्वेदेवाः सनातनाः

१३.१२७.१५यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः
भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः

१३.१२७.१६ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः
ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम्

१३.१२७.१७विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह
गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः

१३.१२७.१८तत्र देवो गिरितटे दिव्यधातुविभूषिते
पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः

१३.१२७.१९व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः
व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः

१३.१२७.२०हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम्
अभयः सर्वभूतानां भक्तानां वृषभध्वजः

१३.१२७.२१दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः
विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः

१३.१२७.२२तस्य भूतपतेः स्थानं भीमरूपधरं बभौ
अप्रधृष्यतरं चैव महोरगसमाकुलम्

१३.१२७.२३क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन
तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ

१३.१२७.२४तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता
हरतुल्याम्बरधरा समानव्रतचारिणी

१३.१२७.२५बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम्
गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा

१३.१२७.२६पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा
सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत्

१३.१२७.२७ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना
हरनेत्रे शुभे देवी सहसा सा समावृणोत्

१३.१२७.२८संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम्
निर्होमं निर्वषट्कारं तत्सदः सहसाभवत्

१३.१२७.२९जनश्च विमनाः सर्वो भयत्राससमन्वितः
निमीलिते भूतपतौ नष्टसूर्य इवाभवत्

१३.१२७.३०ततो वितिमिरो लोकः क्षणेन समपद्यत
ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता

१३.१२७.३१तृतीयं चास्य संभूतं नेत्रमादित्यसंनिभम्
युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः

१३.१२७.३२ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम्
हरं प्रणम्य शिरसा ददर्शायतलोचना

१३.१२७.३३दह्यमाने वने तस्मिन्सशालसरलद्रुमे
सचन्दनवने रम्ये दिव्यौषधिविदीपिते

१३.१२७.३४मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः
शरणं चाप्यविन्दद्भिस्तत्सदः संकुलं बभौ

१३.१२७.३५ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः
द्वादशादित्यसदृशो युगान्ताग्निरिवापरः

१३.१२७.३६क्षणेन तेन दग्धः स हिमवानभवन्नगः
सधातुशिखराभोगो दीनदग्धवनौषधिः

१३.१२७.३७तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः
भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता

१३.१२७.३८उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम्
पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम्

१३.१२७.३९ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः
प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः

१३.१२७.४०प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम्
उवाच सर्वभूतानां पतिं पतिमनिन्दिता

१३.१२७.४१भगवन्सर्वभूतेश शूलपाणे महाव्रत
संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि

१३.१२७.४२किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम्
किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः

१३.१२७.४३किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः
तथैव द्रुमसंछन्नः कृतोऽयं ते महेश्वर

१३.१२७.४४महेश्वर उवाच

१३.१२७.४५नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते
नष्टालोकस्ततो लोकः क्षणेन समपद्यत

१३.१२७.४६नष्टादित्ये तथा लोके तमोभूते नगात्मजे
तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः

१३.१२७.४७तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः
त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः

१३.१२७.४८उमोवाच

१३.१२७.४९भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम्
पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा

१३.१२७.५०दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः
केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः

१३.१२७.५१हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति
जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा

१३.१२७.५२एतं मे संशयं सर्वं वद भूतपतेऽनघ
सधर्मचारिणी चाहं भक्ता चेति वृषध्वज

१३.१२७.५३एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक्
तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः

१३.१२७.५४ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति
हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने