१३. अनुशासनपर्व
१३.१२९.१उमोवाच

१३.१२९.२उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे

१३.१२९.३महेश्वर उवाच

१३.१२९.४ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना
लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः

१३.१२९.५तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम्
ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः

१३.१२९.६इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयंभुवा
पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु

१३.१२९.७वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः
शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः

१३.१२९.८त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः
त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः

१३.१२९.९षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः
वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता

१३.१२९.१०यजनं याजनं चैव तथा दानप्रतिग्रहौ
अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः

१३.१२९.११नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः
दानं प्रशस्यते चास्य यथाशक्ति यथाविधि

१३.१२९.१२अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः
गृहस्थता विशुद्धानां धर्मस्य निचयो महान्

१३.१२९.१३पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः
दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः

१३.१२९.१४अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा
अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः

१३.१२९.१५पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा
दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः

१३.१२९.१६प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च
सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः

१३.१२९.१७सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम्
शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम्

१३.१२९.१८प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते
तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम्

१३.१२९.१९दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा
पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता

१३.१२९.२०धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम्
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः

१३.१२९.२१एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता
एकेनांशेन कामार्थ एकमंशं विवर्धयेत्

१३.१२९.२२निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः
तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः

१३.१२९.२३सर्वभूतदया धर्मो न चैकग्रामवासिता
आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम्

१३.१२९.२४न कुण्ड्यां नोदके सङ्गो न वाससि न चासने
न त्रिदण्डे न शयने नाग्नौ न शरणालये

१३.१२९.२५अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः
युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च

१३.१२९.२६वृक्षमूलशयो नित्यं शून्यागारनिवेशनः
नदीपुलिनशायी च नदीतीररतिश्च यः

१३.१२९.२७विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः
आत्मन्येवात्मनो भावं समासज्याटति द्विजः

१३.१२९.२८स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा
परिव्रजति यो युक्तस्तस्य धर्मः सनातनः

१३.१२९.२९न चैकत्र चिरासक्तो न चैकग्रामगोचरः
युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः

१३.१२९.३०एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम्
यो मार्गमनुयातीमं पदं तस्य न विद्यते

१३.१२९.३१चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः

१३.१२९.३२अतः परतरं नास्ति नाधरं न तिरोऽग्रतः
अदुःखमसुखं सौम्यमजरामरमव्ययम्

१३.१२९.३३उमोवाच

१३.१२९.३४गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया
भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान्

१३.१२९.३५ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम्
स्पृहा भवति मे नित्यं तपोवननिवासिषु

१३.१२९.३६आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम्
तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत्

१३.१२९.३७एतं मे संशयं देव मुनिधर्मकृतं विभो
सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे
निखिलेन मया पृष्टं महादेव यथातथम्

१३.१२९.३८महेश्वर उवाच

१३.१२९.३९हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम्
यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे

१३.१२९.४०फेनपानामृषीणां यो धर्मो धर्मविदां सदा
तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः

१३.१२९.४१उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम्
अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि

१३.१२९.४२एष तेषां विशुद्धानां फेनपानां तपोधने
धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु

१३.१२९.४३वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले
उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः

१३.१२९.४४मृगनिर्मोकवसनाश्चीरवल्कलवाससः
निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः

१३.१२९.४५अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः
तपश्चरणमीहन्ते तेषां धर्मफलं महत्

१३.१२९.४६ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये
द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः

१३.१२९.४७ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः
सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये

१३.१२९.४८पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि
संप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा

१३.१२९.४९सोमपानां च देवानामूष्मपाणां तथैव च
उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः

१३.१२९.५०तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा
यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते

१३.१२९.५१एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः
ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु

१३.१२९.५२सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः
कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः

१३.१२९.५३अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम्
सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा

१३.१२९.५४नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः
सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै

१३.१२९.५५निवृत्तिरुपभोगस्य गोरसानां च वै रतिः
स्थण्डिले शयनं योगः शाकपर्णनिषेवणम्

१३.१२९.५६फलमूलाशनं वायुरापः शैवलभक्षणम्
ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम्

१३.१२९.५७विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीतपात्रसंचारे काले विगतभैक्षके

१३.१२९.५८अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः
सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते

१३.१२९.५९न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः
मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः