१३.१३०.१उमोवाच
१३.१३०.२देशेषु रमणीयेषु गिरीणां निर्झरेषु च
स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च
१३.१३०.३देशेषु च विचित्रेषु फलवत्सु समाहिताः
मूलवत्सु च देशेषु वसन्ति नियतव्रताः
१३.१३०.४तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शंकर
वानप्रस्थेषु देवेश स्वशरीरोपजीविषु
१३.१३०.५महेश्वर उवाच
१३.१३०.६वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता
श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव
१३.१३०.७संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः
वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम्
१३.१३०.८त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया
अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा
१३.१३०.९नीवारग्रहणं चैव फलमूलनिषेवणम्
इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम्
१३.१३०.१०योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम्
वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः
१३.१३०.११युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा
मण्डूकयोगनियतैर्यथान्यायनिषेविभिः
१३.१३०.१२वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा
शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः
१३.१३०.१३अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः
अश्मकुट्टैस्तथा दान्तैः संप्रक्षालैस्तथापरैः
१३.१३०.१४चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः
कार्या यात्रा यथाकालं यथाधर्मं यथाविधि
१३.१३०.१५वननित्यैर्वनचरैर्वनपैर्वनगोचरैः
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः
१३.१३०.१६तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम्
नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम्
१३.१३०.१७अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम्
पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च
१३.१३०.१८विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसंकरैः
विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने
१३.१३०.१९स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा
सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम्
१३.१३०.२०ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम्
गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात्
१३.१३०.२१एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः
विस्तरेणार्थसंपन्नो यथास्थूलमुदाहृतः
१३.१३०.२२उमोवाच
१३.१३०.२३भगवन्देवदेवेश सर्वभूतनमस्कृत
यो धर्मो मुनिसंघस्य सिद्धिवादेषु तं वद
१३.१३०.२४सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः
स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः
१३.१३०.२५महेश्वर उवाच
१३.१३०.२६स्वैरिणस्तापसा देवि सर्वे दारविहारिणः
तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम्
१३.१३०.२७त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत्
समाधिः सत्पथस्थानं यथोदितनिषेवणम्
१३.१३०.२८ये च ते पूर्वकथिता धर्मा वननिवासिनाम्
यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम्
१३.१३०.२९ये च दंपतिधर्माणः स्वदारनियतेन्द्रियाः
चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः
१३.१३०.३०तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते
न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः
१३.१३०.३१सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम्
हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते
१३.१३०.३२सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते
१३.१३०.३३सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम्
उभे एते समे स्यातामार्जवं वा विशिष्यते
१३.१३०.३४आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते
१३.१३०.३५आर्जवो भुवने नित्यं वसत्यमरसंनिधौ
तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः
१३.१३०.३६क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः
धर्मे रतमना नित्यं नरो धर्मेण युज्यते
१३.१३०.३७व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते
१३.१३०.३८उमोवाच
१३.१३०.३९आश्रमाभिरता देव तापसा ये तपोधनाः
दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते
१३.१३०.४०राजानो राजपुत्राश्च निर्धना वा महाधनाः
कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम्
१३.१३०.४१नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः
केन वा कर्मणा देव भवन्ति वनगोचराः
१३.१३०.४२एतं मे संशयं देव तपश्चर्यागतं शुभम्
शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन
१३.१३०.४३महेश्वर उवाच
१३.१३०.४४उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः
१३.१३०.४५मण्डूकयोगशयनो यथास्थानं यथाविधि
दीक्षां चरति धर्मात्मा स नागैः सह मोदते
१३.१३०.४६शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम्
१३.१३०.४७शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते
शीतयोगवहो नित्यं स गच्छेत्परमां गतिम्
१३.१३०.४८वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा
यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः
१३.१३०.४९अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा
चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः
१३.१३०.५०आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम्
मरुं संसाध्य यत्नेन राजा भवति पार्थिवः
१३.१३०.५१स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम्
१३.१३०.५२स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च
गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि
१३.१३०.५३आत्मानमुपजीवन्यो नियतो नियताशनः
देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते
१३.१३०.५४आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्
त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते
१३.१३०.५५आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्
अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते
१३.१३०.५६साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः
चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम्
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते
१३.१३०.५७आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम्
हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते
१३.१३०.५८यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः
आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः
१३.१३०.५९चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम्
अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः
१३.१३०.६०वीराध्वानमना नित्यं वीरासनरतस्तथा
वीरस्थायी च सततं स वीरगतिमाप्नुयात्
१३.१३०.६१स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः
दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः
सुखं वसति धर्मात्मा दिवि देवगणैः सह
१३.१३०.६२वीरलोकगतो वीरो वीरयोगवहः सदा
सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः
वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः
१३.१३०.६३कामगेन विमानेन स वै चरति च्छन्दतः
शक्रलोकगतः श्रीमान्मोदते च निरामयः