१३. अनुशासनपर्व
१३.१३१.१उमोवाच

१३.१३१.२भगवन्भगनेत्रघ्न पूष्णो दशनपातन
दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम्

१३.१३१.३चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम्

१३.१३१.४वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत्
प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम्

१३.१३१.५केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते
क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो

१३.१३१.६एतं मे संशयं देव वद भूतपतेऽनघ
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः

१३.१३१.७महेश्वर उवाच

१३.१३१.८ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे
क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः

१३.१३१.९कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः
ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः

१३.१३१.१०स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति
क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति

१३.१३१.११यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते

१३.१३१.१२वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः
ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा

१३.१३१.१३स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात्
स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते

१३.१३१.१४तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः
ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते

१३.१३१.१५क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि
स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते

१३.१३१.१६स्वस्थानात्स परिभ्रष्टो वर्णसंकरतां गतः
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः

१३.१३१.१७यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः
धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते

१३.१३१.१८इदं चैवापरं देवि ब्रह्मणा समुदीरितम्
अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते

१३.१३१.१९उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम्
घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित्

१३.१३१.२०शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः
पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः

१३.१३१.२१शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत्

१३.१३१.२२तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा

१३.१३१.२३यस्यान्नेनावशेषेण जठरे यो म्रियेत वै
तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति

१३.१३१.२४ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते
अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै

१३.१३१.२५सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः

१३.१३१.२६अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी
निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः

१३.१३१.२७गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः
ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः

१३.१३१.२८एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा
शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत्

१३.१३१.२९शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि
शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः
कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः

१३.१३१.३०दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः
ऋतुकालाभिगामी च नियतो नियताशनः

१३.१३१.३१चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः
वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति

१३.१३१.३२ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः
यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः

१३.१३१.३३दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः
गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः

१३.१३१.३४शेषाशी विजिताहारो निष्कामो निरहंवदः
अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि

१३.१३१.३५सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः
त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि
स वैश्यः क्षत्रियकुले शुचौ महति जायते

१३.१३१.३६स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः
उपनीतो व्रतपरो द्विजो भवति सत्कृतः

१३.१३१.३७ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा

१३.१३१.३८आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्
सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः

१३.१३१.३९धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः
यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः

१३.१३१.४०ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः
ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा

१३.१३१.४१सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः
बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा

१३.१३१.४२सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा
शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन्

१३.१३१.४३स्वार्थाद्वा यदि वा कामान्न किंचिदुपलक्षयेत्
पितृदेवातिथिकृते साधनं कुरुते च यः

१३.१३१.४४स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च
त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि

१३.१३१.४५गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः
त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत्

१३.१३१.४६ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः
विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा

१३.१३१.४७एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः
शूद्रोऽप्यागमसंपन्नो द्विजो भवति संस्कृतः

१३.१३१.४८ब्राह्मणो वाप्यसद्वृत्तः सर्वसंकरभोजनः
ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः

१३.१३१.४९कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः
शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम्

१३.१३१.५०स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति
विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः

१३.१३१.५१न योनिर्नापि संस्कारो न श्रुतं न च संनतिः
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम्

१३.१३१.५२सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते
वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति

१३.१३१.५३ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः

१३.१३१.५४एते योनिफला देवि स्थानभागनिदर्शकाः
स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः

१३.१३१.५५ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत्
यत्तत्र बीजं वपति सा कृषिः पारलौकिकी

१३.१३१.५६मिताशिना सदा भाव्यं सत्पथालम्बिना सदा
ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता

१३.१३१.५७संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना
नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना

१३.१३१.५८एवंभूतो हि यो विप्रः सततं सत्पथे स्थितः
आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते

१३.१३१.५९ब्राह्मण्यमेव संप्राप्य रक्षितव्यं यतात्मभिः
योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते

१३.१३१.६०एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः
ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते