१३.१३३.१उमोवाच
१३.१३३.२किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः
स्वर्गं समभिपद्यन्ते संप्रदानेन केन वा
१३.१३३.३महेश्वर उवाच
१३.१३३.४दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु
भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः
१३.१३३.५प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा
नैत्यकानि च सर्वाणि किमिच्छकमतीव च
१३.१३३.६आसनं शयनं यानं धनं रत्नं गृहांस्तथा
सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः
१३.१३३.७सुप्रतीतमना नित्यं यः प्रयच्छति मानवः
एवंभूतो मृतो देवि देवलोकेऽभिजायते
१३.१३३.८तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान्
सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु
१३.१३३.९तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते
महाभोगे कुले देवि धनधान्यसमाचिते
१३.१३३.१०तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः
महाभोगो महाकोशो धनी भवति मानवः
१३.१३३.११एते देवि महाभोगाः प्राणिनो दानशीलिनः
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः
१३.१३३.१२अपरे मानवा देवि प्रदानकृपणा द्विजैः
याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः
१३.१३३.१३दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः
१३.१३३.१४न धनानि न वासांसि न भोगान्न च काञ्चनम्
न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन
१३.१३३.१५अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः
एवंभूता नरा देवि निरयं यान्त्यबुद्धयः
१३.१३३.१६ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात्
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः
१३.१३३.१७क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः
निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम्
१३.१३३.१८अल्पभोगकुले जाता अल्पभोगरता नराः
अनेन कर्मणा देवि भवन्त्यधनिनो नराः
१३.१३३.१९अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः
आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः
१३.१३३.२०मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः
पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः
१३.१३३.२१अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि
अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः
१३.१३३.२२गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते
अभिमानप्रवृत्तेन लोभेन समवस्थिताः
१३.१३३.२३संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च
एवंविधा नरा देवि सर्वे निरयगामिनः
१३.१३३.२४ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै
वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले
१३.१३३.२५श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम्
कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः
१३.१३३.२६न स्तम्भी न च मानी यो देवताद्विजपूजकः
लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन्
१३.१३३.२७सर्ववर्णप्रियकरः सर्वभूतहितः सदा
अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा
१३.१३३.२८स्वागतेनैव सर्वेषां भूतानामविहिंसकः
यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति
१३.१३३.२९मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन्
अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः
१३.१३३.३०एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते
ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत्
१३.१३३.३१तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः
यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत्
१३.१३३.३२संमतः सर्वभूतानां सर्वलोकनमस्कृतः
स्वकर्मफलमाप्नोति स्वयमेव नरः सदा
१३.१३३.३३उदात्तकुलजातीय उदात्ताभिजनः सदा
एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः
१३.१३३.३४यस्तु रौद्रसमाचारः सर्वसत्त्वभयंकरः
हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः
१३.१३३.३५लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने
हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह
१३.१३३.३६उपक्रामति जन्तूंश्च उद्वेगजननः सदा
एवंशीलसमाचारो निरयं प्रतिपद्यते
१३.१३३.३७स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात्
बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले
१३.१३३.३८लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः
एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु
१३.१३३.३९अपरः सर्वभूतानि दयावाननुपश्यति
मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः
१३.१३३.४०नोद्वेजयति भूतानि न विहिंसयते तथा
हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु
१३.१३३.४१न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च
उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः
१३.१३३.४२एवंशीलसमाचारः स्वर्गे समुपजायते
तत्रासौ भवने दिव्ये मुदा वसति देववत्
१३.१३३.४३स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते
अल्पाबाधो निरीतीकः स जातः सुखमेधते
१३.१३३.४४सुखभागी निरायासो निरुद्वेगः सदा नरः
एष देवि सतां मार्गो बाधा यत्र न विद्यते
१३.१३३.४५उमोवाच
१३.१३३.४६इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः
ज्ञानविज्ञानसंपन्नाः प्रज्ञावन्तोऽर्थकोविदाः
दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः
१३.१३३.४७केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत्
अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः
एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर
१३.१३३.४८जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा
नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै
१३.१३३.४९महेश्वर उवाच
१३.१३३.५०ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा
परिपृच्छन्त्यहरहः कुशलाकुशलं तथा
१३.१३३.५१वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा
लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा
१३.१३३.५२स चेन्मानुषतां याति मेधावी तत्र जायते
श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते
१३.१३३.५३परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते
तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह
१३.१३३.५४मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम्
रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः
१३.१३३.५५ये तु मूढा दुराचारा वियोनौ मैथुने रताः
पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते
१३.१३३.५६पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः
प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः
१३.१३३.५७उमोवाच
१३.१३३.५८सावद्यं किं नु वै कर्म निरवद्यं तथैव च
श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम
१३.१३३.५९महेश्वर उवाच
१३.१३३.६०श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान्
धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते
१३.१३३.६१यदि मानुषतां देवि कदाचित्स निगच्छति
मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते
१३.१३३.६२एष देवि सतां धर्मो मन्तव्यो भूतिकारकः
नृणां हितार्थाय तव मया वै समुदाहृतः
१३.१३३.६३उमोवाच
१३.१३३.६४अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः
ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम्
१३.१३३.६५व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः
अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः
१३.१३३.६६यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे
केन कर्मविपाकेन भवन्तीह वदस्व मे
१३.१३३.६७महेश्वर उवाच
१३.१३३.६८आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः
प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः
१३.१३३.६९अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः
अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः
१३.१३३.७०ते चेत्कालकृतोद्योगात्संभवन्तीह मानुषाः
निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः
१३.१३३.७१एष देवि मया सर्वः संशयच्छेदनाय ते
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः