१३.१३८.१वायुरुवाच
१३.१३८.२शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम्
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः
१३.१३८.३त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह
नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः
१३.१३८.४अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा
१३.१३८.५स ताः पिबन्क्षीरमिव नातृप्यत महातपाः
अपूरयन्महौघेन महीं सर्वां च पार्थिव
१३.१३८.६तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात्
१३.१३८.७अभिशप्तश्च भगवान्गौतमेन पुरंदरः
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः
१३.१३८.८तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा
ब्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो
१३.१३८.९सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः
१३.१३८.१०मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम्
सुवर्णधारिणा नित्यमवशप्ता द्विजातिना
१३.१३८.११समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप
गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः
१३.१३८.१२दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम्
तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम्
१३.१३८.१३त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा
दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम्
१३.१३८.१४अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम्
स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम्
१३.१३८.१५अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम्
कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे
१३.१३८.१६तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः
येनेदं निखिलं विश्वं जनितं स्थावरं चरम्
१३.१३८.१७अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः
अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम्
१३.१३८.१८द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः
स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः
१३.१३८.१९तिष्ठेत्कथमिति ब्रूहि न किंचिद्धि तदा भवेत्
अहंकार इति प्रोक्तः सर्वतेजोगतः प्रभुः
१३.१३८.२०नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः
इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत्