१३.१४५.१युधिष्ठिर उवाच
१३.१४५.२दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि
१३.१४५.३महाभाग्यं च यत्तस्य नामानि च महात्मनः
तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर
१३.१४५.४वासुदेव उवाच
१३.१४५.५हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने
यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः
१३.१४५.६प्रयतः प्रातरुत्थाय यदधीये विशां पते
प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु
१३.१४५.७प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः
शंकरस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः
१३.१४५.८नास्ति किंचित्परं भूतं महादेवाद्विशां पते
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः
१३.१४५.९न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते
१३.१४५.१०गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च
१३.१४५.११घोरं च निनदं तस्य पर्जन्यनिनदोपमम्
श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे
१३.१४५.१२यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक्
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः
१३.१४५.१३प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा
धनुषा बाणमुत्सृज्य सघोषं विननाद च
१३.१४५.१४ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः
विद्रुते सहसा यज्ञे कुपिते च महेश्वरे
१३.१४५.१५तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः
१३.१४५.१६आपश्चुक्षुभिरे चैव चकम्पे च वसुंधरा
व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः
१३.१४५.१७अन्धेन तमसा लोकाः प्रावृता न चकाशिरे
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत
१३.१४५.१८भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च
ऋषयः सर्वभूतानामात्मनश्च हितैषिणः
१३.१४५.१९ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्
१३.१४५.२०पूषाणं चाभिदुद्राव परेण वपुषान्वितः
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत्
१३.१४५.२१ततः प्रणेमुर्देवास्ते वेपमानाः स्म शंकरम्
पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम्
१३.१४५.२२रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः
१३.१४५.२३जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः
संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः
१३.१४५.२४रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन्
भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे
१३.१४५.२५तेन चैवातिकोपेन स यज्ञः संधितोऽभवत्
यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते
१३.१४५.२६असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि
आयसं राजतं चैव सौवर्णमपरं तथा
१३.१४५.२७नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः
१३.१४५.२८तत ऊचुर्महात्मानो देवाः सर्वे समागताः
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद
१३.१४५.२९स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम्
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम्
वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम्
१३.१४५.३०देवान्रथवरं कृत्वा विनियुज्य च सर्वशः
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः
१३.१४५.३१शरेणादित्यवर्णेन कालाग्निसमतेजसा
तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत
१३.१४५.३२तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा
१३.१४५.३३असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः
सवज्रं स्तम्भयामास तं बाहुं परिघोपमम्
१३.१४५.३४न संबुबुधिरे चैनं देवास्तं भुवनेश्वरम्
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे
१३.१४५.३५ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम्
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम्
१३.१४५.३६ततः प्रसादयामासुरुमां रुद्रं च ते सुराः
बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा
१३.१४५.३७स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान्
द्वारवत्यां मम गृहे चिरं कालमुपावसत्
१३.१४५.३८विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि
तानुदारतया चाहमक्षमं तस्य दुःसहम्
१३.१४५.३९स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः
१३.१४५.४०स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च
मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः
१३.१४५.४१स धाता स विधाता च विश्वकर्मा स सर्ववित्
नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा
विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः
१३.१४५.४२एकधा च द्विधा चैव बहुधा च स एव च
शतधा सहस्रधा चैव तथा शतसहस्रधा
१३.१४५.४३ईदृशः स महादेवो भूयश्च भगवानतः
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि