१३. अनुशासनपर्व
१३.१४६.१वासुदेव उवाच

१३.१४६.२युधिष्ठिर महाबाहो महाभाग्यं महात्मनः
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे

१३.१४६.३वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम्
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा

१३.१४६.४द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः

१३.१४६.५उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः
शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः

१३.१४६.६आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ
ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा

१३.१४६.७यास्य घोरतमा मूर्तिर्जगत्संहरते तया
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः

१३.१४६.८यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते

१३.१४६.९देवानां सुमहान्यच्च यच्चास्य विषयो महान्
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः

१३.१४६.१०समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः

१३.१४६.११दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत्
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः

१३.१४६.१२यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः

१३.१४६.१३धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः

१३.१४६.१४सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा
चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम्

१३.१४६.१५सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः

१३.१४६.१६नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्
महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः

१३.१४६.१७विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते

१३.१४६.१८ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम्

१३.१४६.१९पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः

१३.१४६.२०एष एव श्मशानेषु देवो वसति नित्यशः
यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम्

१३.१४६.२१विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह
स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम्

१३.१४६.२२तस्य घोराणि रूपाणि दीप्तानि च बहूनि च
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः

१३.१४६.२३नामधेयानि वेदेषु बहून्यस्य यथार्थतः
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा

१३.१४६.२४वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्
व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः

१३.१४६.२५प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत्
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे

१३.१४६.२६प्रथमो ह्येष देवानां मुखादग्निरजायत
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि

१३.१४६.२७स मोचयति पुण्यात्मा शरण्यः शरणागतान्
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान्

१३.१४६.२८स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः
शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते

१३.१४६.२९स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते

१३.१४६.३०महेश्वरश्च लोकानां महतामीश्वरश्च सः
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्
तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम्