१३. अनुशासनपर्व
१३.१४७.१वैशंपायन उवाच

१३.१४७.२इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने
भीष्मं शांतनवं भूयः पर्यपृच्छद्युधिष्ठिरः

१३.१४७.३निर्णये वा महाबुद्धे सर्वधर्मभृतां वर
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत्

१३.१४७.४भीष्म उवाच

१३.१४७.५नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि

१३.१४७.६संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम्

१३.१४७.७प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः
नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः

१३.१४७.८अथ चेन्मन्यसे चैकं कारणं किं भवेदिति
शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च
प्राणयात्रामनेकां च कल्पयानेन भारत

१३.१४७.९तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम्
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम्
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते

१३.१४७.१०तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा
अग्राह्यमनिबद्धं च वाचः संपरिवर्जनम्

१३.१४७.११युधिष्ठिर उवाच

१३.१४७.१२प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः
शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह

१३.१४७.१३भीष्म उवाच

१३.१४७.१४धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
संस्था यत्नैरपि कृता कालेन परिभिद्यते

१३.१४७.१५अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर

१३.१४७.१६अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः

१३.१४७.१७अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः
परमित्येव संतुष्टास्तानुपास्स्व च पृच्छ च

१३.१४७.१८कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ
धर्म इत्येव संबुद्धास्तानुपास्स्व च पृच्छ च

१३.१४७.१९न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः
आचारः कारणं चैव धर्मश्चैव त्रयं पुनः

१३.१४७.२०युधिष्ठिर उवाच

१३.१४७.२१पुनरेवेह मे बुद्धिः संशये परिमुह्यते
अपारे मार्गमाणस्य परं तीरमपश्यतः

१३.१४७.२२वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि
पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम्

१३.१४७.२३भीष्म उवाच

१३.१४७.२४धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा

१३.१४७.२५एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम्
पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा

१३.१४७.२६उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर
जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात्

१३.१४७.२७सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः
अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर

१३.१४७.२८अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्
अजातशत्रो सेवस्व धर्म एष सनातनः

१३.१४७.२९ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता
तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः

१३.१४७.३०प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः
न स प्रमाणतामर्हो विवादजननो हि सः

१३.१४७.३१ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान्