१३.१४८.१युधिष्ठिर उवाच
१३.१४८.२ये च धर्ममसूयन्ति ये चैनं पर्युपासते
ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः
१३.१४८.३भीष्म उवाच
१३.१४८.४रजसा तमसा चैव समवस्तीर्णचेतसः
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः
१३.१४८.५ये तु धर्मं महाराज सततं पर्युपासते
सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः
१३.१४८.६धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत्
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते
१३.१४८.७मनुष्या यदि वा देवाः शरीरमुपताप्य वै
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः
१३.१४८.८प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः
१३.१४८.९युधिष्ठिर उवाच
१३.१४८.१०असतां कीदृशं रूपं साधवः किं च कुर्वते
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः
१३.१४८.११भीष्म उवाच
१३.१४८.१२दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः
साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम्
१३.१४८.१३राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः
नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः
१३.१४८.१४पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः
१३.१४८.१५चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम्
ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम्
१३.१४८.१६वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते
१३.१४८.१७अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः
१३.१४८.१८सायं प्रातर्मनुष्याणामशनं देवनिर्मितम्
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः
१३.१४८.१९होमकाले यथा वह्निः कालमेव प्रतीक्षते
ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते
न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम्
१३.१४८.२०अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः
तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि
१३.१४८.२१यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम्
१३.१४८.२२स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत्
कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत्
१३.१४८.२३गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च
गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया
१३.१४८.२४वृद्धान्नातिवदेज्जातु न च संप्रेषयेदपि
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते
१३.१४८.२५न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि
मैथुनं सततं गुप्तमाहारं च समाचरेत्
१३.१४८.२६तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि
दर्शनानां परं ज्ञानं संतोषः परमं सुखम्
१३.१४८.२७सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया
१३.१४८.२८स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम्
१३.१४८.२९संस्कृतं पायसं नित्यं यवागूं कृसरं हविः
अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम्
१३.१४८.३०श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम्
व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम्
१३.१४८.३१न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम्
त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते
अवराणां समानानां शिष्याणां च समाचरेत्
१३.१४८.३२पापमाचक्षते नित्यं हृदयं पापकर्मिणाम्
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने
१३.१४८.३३ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः
पापेनाभिहतः पापः पापमेवाभिजायते
१३.१४८.३४यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते
धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत्
१३.१४८.३५यथा लवणमम्भोभिराप्लुतं प्रविलीयते
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति
१३.१४८.३६तस्मात्पापं न गूहेत गूहमानं विवर्धते
कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत
१३.१४८.३७आशया संचितं द्रव्यं यत्काले नोपभुज्यते
अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः
१३.१४८.३८मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः
तस्मात्सर्वाणि भूतानि धर्ममेव समासते
१३.१४८.३९एक एव चरेद्धर्मं न धर्मध्वजिको भवेत्
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते
१३.१४८.४०अर्चेद्देवानदम्भेन सेवेतामायया गुरून्
निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम्