१३. अनुशासनपर्व
१३.१४९.१युधिष्ठिर उवाच

१३.१४९.२नाभागधेयः प्राप्नोति धनं सुबलवानपि
भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति

१३.१४९.३नालाभकाले लभते प्रयत्नेऽपि कृते सति
लाभकालेऽप्रयत्नेन लभते विपुलं धनम्
कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः

१३.१४९.४यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात्
नालभ्यं चोपलभ्येत नृणां भरतसत्तम

१३.१४९.५यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः
मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी

१३.१४९.६अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः
धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः

१३.१४९.७अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना
विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा

१३.१४९.८यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात्
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत्

१३.१४९.९यथा पिपासां जयति पुरुषः प्राप्य वै जलम्
दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः

१३.१४९.१०नाप्राप्तकालो म्रियते विद्धः शरशतैरपि
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति

१३.१४९.११भीष्म उवाच

१३.१४९.१२ईहमानः समारम्भान्यदि नासादयेद्धनम्
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति

१३.१४९.१३दानेन भोगी भवति मेधावी वृद्धसेवया
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः

१३.१४९.१४तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि
स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः

१३.१४९.१५यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे
मशकीटपिपीलानां स्थिरो भव युधिष्ठिर