१३.१५०.१भीष्म उवाच
१३.१५०.२कार्यते यच्च क्रियते सच्चासच्च कृतं ततः
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत्
१३.१५०.३काल एवात्र कालेन निग्रहानुग्रहौ ददत्
बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते
१३.१५०.४यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी
तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत्
१३.१५०.५एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम्
कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत्
१३.१५०.६यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान्
एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः
१३.१५०.७न ह्यधर्मतया धर्मं दद्यात्कालः कथंचन
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम्
१३.१५०.८स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम्
अधर्मः सततो धर्मं कालेन परिरक्षितम्
१३.१५०.९कार्यावेतौ हि कालेन धर्मो हि विजयावहः
त्रयाणामपि लोकानामालोककरणो भवेत्
१३.१५०.१०तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम्
उह्यमानः स धर्मेण धर्मे बहुभयच्छले