१३. अनुशासनपर्व
१३.१५१.१युधिष्ठिर उवाच

१३.१५१.२किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते
विपाप्मा च भवेत्केन किं वा कल्मषनाशनम्

१३.१५१.३भीष्म उवाच

१३.१५१.४अयं दैवतवंशो वै ऋषिवंशसमन्वितः
द्विसंध्यं पठितः पुत्र कल्मषापहरः परः

१३.१५१.५देवासुरगुरुर्देवः सर्वभूतनमस्कृतः
अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः

१३.१५१.६पितामहो जगन्नाथः सावित्री ब्रह्मणः सती
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः

१३.१५१.७उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा
विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ

१३.१५१.८शक्रः शचीपतिर्देवो यमो धूमोर्णया सह
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः

१३.१५१.९सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः
षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः

१३.१५१.१०वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः

१३.१५१.११तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः

१३.१५१.१२उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा

१३.१५१.१३आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च
धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः

१३.१५१.१४शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा
शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः

१३.१५१.१५नक्षत्राण्यृतवश्चैव मासाः संध्याः सवत्सराः
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा

१३.१५१.१६शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती
सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च

१३.१५१.१७गङ्गा महानदी चैव कपिला नर्मदा तथा
कम्पुना च विशल्या च करतोयाम्बुवाहिनी

१३.१५१.१८सरयूर्गण्डकी चैव लोहित्यश्च महानदः
ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा

१३.१५१.१९गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा
दृषद्वती च कावेरी वंक्षुर्मन्दाकिनी तथा

१३.१५१.२०प्रयागं च प्रभासं च पुण्यं नैमिषमेव च
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः

१३.१५१.२१पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम्
सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च

१३.१५१.२२हिरण्वती वितस्ता च तथैवेक्षुमती नदी
वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि

१३.१५१.२३भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च
ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा

१३.१५१.२४कौशिकी यमुना सीता तथा चर्मण्वती नदी
नदी भीमरथी चैव बाहुदा च महानदी
महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती

१३.१५१.२५नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम्
गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम्

१३.१५१.२६तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम्
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्

१३.१५१.२७हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः

१३.१५१.२८मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः
शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा

१३.१५१.२९चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः

१३.१५१.३०विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा
पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया

१३.१५१.३१कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात्
सर्वसंकरपापेभ्यो देवतास्तवनन्दकः

१३.१५१.३२देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान्
कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान्

१३.१५१.३३यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः
बर्ही च गुणसंपन्नः प्राचीं दिशमुपाश्रिताः

१३.१५१.३४भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान्

१३.१५१.३५मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ

१३.१५१.३६पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्
उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान्

१३.१५१.३७ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः

१३.१५१.३८उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान्
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्

१३.१५१.३९विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च
ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा

१३.१५१.४०श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च

१३.१५१.४१लोमशो नाचिकेतश्च लोमहर्षण एव च
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा

१३.१५१.४२एष वै समवायस्ते ऋषिदेवसमन्वितः
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः

१३.१५१.४३नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान्
धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान्

१३.१५१.४४कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा
दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः

१३.१५१.४५यवनो जनकश्चैव तथा दृढरथो नृपः
रघुर्नरवरश्चैव तथा दशरथो नृपः

१३.१५१.४६रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः
हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता

१३.१५१.४७महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः
करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः

१३.१५१.४८दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः
मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियंकरः

१३.१५१.४९त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः
महाभिषश्च विख्यातो निमिराजस्तथाष्टकः

१३.१५१.५०आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः
शिबिरौशीनरश्चैव गयश्चैव नराधिपः

१३.१५१.५१प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः

१३.१५१.५२हविध्रश्च पृषध्रश्च प्रतीपः शंतनुस्तथा
कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः

१३.१५१.५३मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः
ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः