१३.५१.१भीष्म उवाच
१३.५१.२नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम्
त्वरितः प्रययौ तत्र सहामात्यपुरोहितः
१३.५१.३शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः
आत्मानमाचचक्षे च च्यवनाय महात्मने
१३.५१.४अर्चयामास तं चापि तस्य राज्ञः पुरोहितः
सत्यव्रतं महाभागं देवकल्पं विशां पते
१३.५१.५नहुष उवाच
१३.५१.६करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि
सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम्
१३.५१.७च्यवन उवाच
१३.५१.८श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह
१३.५१.९नहुष उवाच
१३.५१.१०सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित
निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः
१३.५१.११च्यवन उवाच
१३.५१.१२सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु
१३.५१.१३नहुष उवाच
१३.५१.१४सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम्
स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान्
१३.५१.१५च्यवन उवाच
१३.५१.१६नाहं शतसहस्रेण निमेयः पार्थिवर्षभ
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय
१३.५१.१७नहुष उवाच
१३.५१.१८कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित
यदेतदपि नौपम्यमतो भूयः प्रदीयताम्
१३.५१.१९च्यवन उवाच
१३.५१.२०राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय
१३.५१.२१नहुष उवाच
१३.५१.२२अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम्
एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज
१३.५१.२३च्यवन उवाच
१३.५१.२४अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव
सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम्
१३.५१.२५भीष्म उवाच
१३.५१.२६महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः
स चिन्तयामास तदा सहामात्यपुरोहितः
१३.५१.२७तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः
१३.५१.२८स समाभाष्य राजानमब्रवीद्द्विजसत्तमः
तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति
१३.५१.२९नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा
भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया
१३.५१.३०नहुष उवाच
१३.५१.३१ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः
परित्रायस्व मामस्माद्विषयं च कुलं च मे
१३.५१.३२हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम्
किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम्
१३.५१.३३अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम्
१३.५१.३४भीष्म उवाच
१३.५१.३५नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान्
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम्
१३.५१.३६अनर्घेया महाराज द्विजा वर्णमहत्तमाः
गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम्
१३.५१.३७नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप
हर्षेण महता युक्तः सहामात्यपुरोहितः
१३.५१.३८अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम्
इदं प्रोवाच नृपते वाचा संतर्पयन्निव
१३.५१.३९उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव
एतन्मूल्यमहं मन्ये तव धर्मभृतां वर
१३.५१.४०च्यवन उवाच
१३.५१.४१उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ
गोभिस्तुल्यं न पश्यामि धनं किंचिदिहाच्युत
१३.५१.४२कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव
गवां प्रशस्यते वीर सर्वपापहरं शिवम्
१३.५१.४३गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते
अन्नमेव सदा गावो देवानां परमं हविः
१३.५१.४४स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ
गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम्
१३.५१.४५अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च
अमृतायतनं चैताः सर्वलोकनमस्कृताः
१३.५१.४६तेजसा वपुषा चैव गावो वह्निसमा भुवि
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः
१३.५१.४७निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्
विराजयति तं देशं पाप्मानं चापकर्षति
१३.५१.४८गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः
गावः कामदुघा देव्यो नान्यत्किंचित्परं स्मृतम्
१३.५१.४९इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ
गुणैकदेशवचनं शक्यं पारायणं न तु
१३.५१.५०निषादा ऊचुः
१३.५१.५१दर्शनं कथनं चैव सहास्माभिः कृतं मुने
सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो
१३.५१.५२हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान्
१३.५१.५३प्रसादयामहे विद्वन्भवन्तं प्रणता वयम्
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम्
१३.५१.५४च्यवन उवाच
१३.५१.५५कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च
नरं समूलं दहति कक्षमग्निरिव ज्वलन्
१३.५१.५६प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः
दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह
१३.५१.५७भीष्म उवाच
१३.५१.५८ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः
१३.५१.५९ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान्
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ
१३.५१.६०ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम्
१३.५१.६१ततो राजा महावीर्यो नहुषः पृथिवीपतिः
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम
१३.५१.६२ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत्
१३.५१.६३समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम्
गविजश्च महातेजाः स्वमाश्रमपदं ययौ
१३.५१.६४निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप
नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम्
१३.५१.६५एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि
दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर
१३.५१.६६महाभाग्यं गवां चैव तथा धर्मविनिश्चयम्
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम्