१३. अनुशासनपर्व
१३.५२.१युधिष्ठिर उवाच

१३.५२.२संशयो मे महाप्राज्ञ सुमहान्सागरोपमः
तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि

१३.५२.३कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि

१३.५२.४कथमेष समुत्पन्नो रामः सत्यपराक्रमः
कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत

१३.५२.५तदस्य संभवं राजन्निखिलेनानुकीर्तय
कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत्

१३.५२.६अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह

१३.५२.७कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत्
एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि

१३.५२.८भीष्म उवाच

१३.५२.९अत्राप्युदाहरन्तीममितिहासं पुरातनम्
च्यवनस्य च संवादं कुशिकस्य च भारत

१३.५२.१०एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा
आगामिनं महाबुद्धिः स्ववंशे मुनिपुंगवः

१३.५२.११संचिन्त्य मनसा सर्वं गुणदोषबलाबलम्
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः

१३.५२.१२च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत्
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ

१३.५२.१३कुशिक उवाच

१३.५२.१४भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते
प्रदानकाले कन्यानामुच्यते च सदा बुधैः

१३.५२.१५यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि

१३.५२.१६भीष्म उवाच

१३.५२.१७अथासनमुपादाय च्यवनस्य महामुनेः
कुशिको भार्यया सार्धमाजगाम यतो मुनिः

१३.५२.१८प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः

१३.५२.१९ततः स राजा च्यवनं मधुपर्कं यथाविधि
प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः

१३.५२.२०सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत्
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे

१३.५२.२१यदि राज्यं यदि धनं यदि गाः संशितव्रत
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते

१३.५२.२२इदं गृहमिदं राज्यमिदं धर्मासनं च ते
राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि

१३.५२.२३एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा
कुशिकं प्रत्युवाचेदं मुदा परमया युतः

१३.५२.२४न राज्यं कामये राजन्न धनं न च योषितः
न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम्

१३.५२.२५नियमं कंचिदारप्स्ये युवयोर्यदि रोचते
परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया

१३.५२.२६एवमुक्ते तदा तेन दंपती तौ जहर्षतुः
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत

१३.५२.२७अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम्
गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत्

१३.५२.२८इयं शय्या भगवतो यथाकाममिहोष्यताम्
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन

१३.५२.२९अथ सूर्योऽतिचक्राम तेषां संवदतां तथा
अथर्षिश्चोदयामास पानमन्नं तथैव च

१३.५२.३०तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम्

१३.५२.३१ततः स परया प्रीत्या प्रत्युवाच जनाधिपम्
औपपत्तिकमाहारं प्रयच्छस्वेति भारत

१३.५२.३२तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः
यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः

१३.५२.३३ततः स भगवान्भुक्त्वा दंपती प्राह धर्मवित्
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो

१३.५२.३४ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः
संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत्

१३.५२.३५न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः
संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि

१३.५२.३६अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित्
न प्रबोधयतां तं च तौ तदा रजनीक्षये

१३.५२.३७यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा
बभूवतुर्महाराज प्रयतावथ दंपती

१३.५२.३८ततः स भगवान्विप्रः समादिश्य नराधिपम्
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम्

१३.५२.३९स तु राजा निराहारः सभार्यः कुरुनन्दन
पर्युपासत तं हृष्टश्च्यवनाराधने रतः

१३.५२.४०भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः
अकिंचिदुक्त्वा तु गृहान्निश्चक्राम महातपाः

१३.५२.४१तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ
भार्यापती मुनिश्रेष्ठो न च ताववलोकयत्

१३.५२.४२तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः
अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ

१३.५२.४३स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः
पुनरन्वेषणे यत्नमकरोत्परमं तदा